Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 8

Araṇyakaparva (Vanaparva) Adhyāya 8

अरण्यकपर्व • अध्यायः 8

Araṇyakaparva (Vanaparva) Adhyāya 8 of the classical Mahābhārata with 24 verses.

Total: 24 Verses • Citations: MBh 3.8.1–24 • 250 Lexicon Terms
श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम् । धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः ॥
स सौबलं समानाय्य कर्णदुःशासनावपि । अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः ॥
एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः । विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः ॥
यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति । पाण्डवानयने तावन्मन्त्रयध्वं हितं मम ॥
अथ पश्याम्यहं पार्थान्प्राप्तानिह कथंचन । पुनः शोषं गमिष्यामि निरासुर्निरवग्रहः ॥
विषमुद्बन्धनं वापि शस्त्रमग्निप्रवेशनम् । करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे ॥
किं बालिषां मतिं राजन्नास्थितोऽसि विशां पते । गतास्ते समयं कृत्वा नैतदेवं भविष्यति ॥
सत्यवाक्ये स्थिताः सर्वे पाण्डवा भरतर्षभ । पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित् ॥
अथ वा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम् । निरस्य समयं भूयः पणोऽस्माकं भविष्यति ॥
सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः । छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः ॥
एवमेतन्महाप्राज्ञ यथा वदसि मातुल । नित्यं हि मे कथयतस्तव बुद्धिर्हि रोचते ॥
काममीक्षामहे सर्वे दुर्योधन तवेप्सितम् । ऐकमत्यं हि नो राजन्सर्वेषामेव लक्ष्यते ॥
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा । नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः ॥
उपलभ्य ततः कर्णो विवृत्य नयने शुभे । रोषाद्दुःशासनं चैव सौबलेयं च तावुभौ ॥
उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना । अहो मम मतं यत्तन्निबोधत नराधिपाः ॥
प्रियं सर्वे चिकीर्षामो राज्ञः किंकरपाणयः । न चास्य शक्नुमः सर्वे प्रिये स्थातुमतन्द्रिताः ॥
वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः । गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान् ॥
तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम् । निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम् ॥
यावदेव परिद्यूना यावच्छोकपरायणाः । यावन्मित्रविहीनाश्च तावच्छक्या मतं मम ॥
तस्य तद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः । बाढमित्येव ते सर्वे प्रत्यूचुः सूतजं तदा ॥
एवमुक्त्वा तु संक्रुद्धा रथैः सर्वे पृथक्पृथक् । निर्ययुः पाण्डवान्हन्तुं संघशः कृतनिश्चयाः ॥
तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनस्तदा । आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा ॥
प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः । प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरः ॥
← Previous (Ch. 304) Full Table of Contents Next (Ch. 306) →