Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 7

Araṇyakaparva (Vanaparva) Adhyāya 7

अरण्यकपर्व • अध्यायः 7

Araṇyakaparva (Vanaparva) Adhyāya 7 of the classical Mahābhārata with 25 verses.

Total: 25 Verses • Citations: MBh 3.7.1–25 • 250 Lexicon Terms
गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति । धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत ॥
स सभाद्वारमागम्य विदुरस्मारमोहितः । समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः ॥
स तु लब्ध्वा पुनः संज्ञां समुत्थाय महीतलात् । समीपोपस्थितं राजा संजयं वाक्यमब्रवीत् ॥
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः । तस्य स्मृत्वाद्य सुभृशं हृदयं दीर्यतीव मे ॥
तमानयस्व धर्मज्ञं मम भ्रातरमाशु वै । इति ब्रुवन्स नृपतिः करुणं पर्यदेवयत् ॥
पश्चात्तापाभिसंतप्तो विदुरस्मारकर्शितः । भ्रातृस्नेहादिदं राजन्संजयं वाक्यमब्रवीत् ॥
गच्छ संजय जानीहि भ्रातरं विदुरं मम । यदि जीवति रोषेण मया पापेन निर्धुतः ॥
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किंचन । व्यलीकं कृतपूर्वं मे प्राज्ञेनामितबुद्धिना ॥
स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान् । न जह्याज्जीवितं प्राज्ञस्तं गच्छानय संजय ॥
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च । संजयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं वनम् ॥
सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः । रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम् ॥
विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः । भ्रातृभिश्चाभिसंगुप्तं देवैरिव शतक्रतुम् ॥
युधिष्ठिरमथाभ्येत्य पूजयामास संजयः । भीमार्जुनयमांश्चापि तदर्हं प्रत्यपद्यत ॥
राज्ञा पृष्टः स कुशलं सुखासीनश्च संजयः । शशंसागमने हेतुमिदं चैवाब्रवीद्वचः ॥
राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः । तं पश्य गत्वा त्वं क्षिप्रं संजीवय च पार्थिवम् ॥
सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान् । नियोगाद्राजसिंहस्य गन्तुमर्हसि मानद ॥
एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः । युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम् ॥
तमब्रवीन्महाप्राज्ञं धृतराष्ट्रः प्रतापवान् । दिष्ट्या प्राप्तोऽसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ ॥
अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ । प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः ॥
सोऽङ्कमादाय विदुरं मूर्ध्न्युपाघ्राय चैव ह । क्षम्यतामिति चोवाच यदुक्तोऽसि मया रुषा ॥
क्षान्तमेव मया राजन्गुरुर्नः परमो भवान् । तथा ह्यस्म्यागतः क्षिप्रं त्वद्दर्शनपरायणः ॥
भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः । दीनाभिपातिनो राजन्नात्र कार्या विचारणा ॥
पाण्डोः सुता यादृशा मे तादृशा मे सुतास्तव । दीना इति हि मे बुद्धिरभिपन्नाद्य तान्प्रति ॥
अन्योन्यमनुनीयैवं भ्रातरौ तौ महाद्युती । विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम् ॥
← Previous (Ch. 303) Full Table of Contents Next (Ch. 305) →