Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 48

Araṇyakaparva (Vanaparva) Adhyāya 48

अरण्यकपर्व • अध्यायः 48

Araṇyakaparva (Vanaparva) Adhyāya 48 of the classical Mahābhārata with 42 verses.

Total: 42 Verses • Citations: MBh 3.48.1–42 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
सुदीर्घमुष्णं निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः । अब्रवीत्संजयं सूतमामन्त्र्य भरतर्षभ ॥
देवपुत्रौ महाभागौ देवराजसमद्युती । नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ ॥
दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ । शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ तरस्विनौ ॥
भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि । स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ । न शेषमिह पश्यामि तदा सैन्यस्य संजय ॥
तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ । द्रौपद्यास्तं परिक्लेशं न क्षंस्येते त्वमर्षिणौ ॥
वृष्णयो वा महेष्वासा पाञ्चाला वा महौजसः । युधि सत्याभिसंधेन वासुदेवेन रक्षिताः । प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम् ॥
रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन । न शक्यः सहितुं वेगः पर्वतैरपि संयुगे ॥
तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः । शैक्यया वीरघातिन्या गदया विचरिष्यति ॥
तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः । गदावेगं च भीमस्य नालं सोढुं नराधिपाः ॥
ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः । स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा ॥
व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः । समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः ॥
श्रुत्वा हि निर्जितान्द्यूते पाण्डवान्मधुसूदनः । त्वरितः काम्यके पार्थान्समभावयदच्युतः ॥
द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः । विराटो धृष्टकेतुश्च केकयाश्च महारथाः ॥
तैश्च यत्कथितं तत्र दृष्ट्वा पार्थान्पराजितान् । चारेण विदितं सर्वं तन्मया वेदितं च ते ॥
समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः । सारथ्ये फल्गुनस्याजौ तथेत्याह च तान्हरिः ॥
अमर्षितो हि कृष्णोऽपि दृष्ट्वा पार्थांस्तथागतान् । कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम् ॥
या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह । राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा ॥
यत्र सर्वान्महीपालाञ्शस्त्रतेजोभयार्दितान् । सवङ्गाङ्गान्सपौण्ड्रोड्रान्सचोलद्रविडान्धकान् ॥
सागरानूपगांश्चैव ये च पत्तनवासिनः । सिंहलान्बर्बरान्म्लेच्छान्ये च जाङ्गलवासिनः ॥
पश्चिमानि च राज्यानि शतशः सागरान्तिकान् । पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्शकान् ॥
हारहूणांश्च चीनांश्च तुखारान्सैन्धवांस्तथा । जागुडान्रमठान्मुण्डान्स्त्रीराज्यानथ तङ्गणान् ॥
एते चान्ये च बहवो ये च ते भरतर्षभ । आगतानहमद्राक्षं यज्ञे ते परिवेषकान् ॥
सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी । आदाय जीवितं तेषामाहरिष्यामि तामहम् ॥
रामेण सह कौरव्य भीमार्जुनयमैस्तथा । अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च । धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च ॥
दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत । दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यते ॥
ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन् । धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम् ॥
अथैनमब्रवीद्राजा तस्मिन्वीरसमागमे । शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च ॥
प्रतिगृह्णामि ते वाचं सत्यामेतां जनार्दन । अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि ॥
वर्षात्त्रयोदशादूर्ध्वं सत्यं मां कुरु केशव । प्रतिज्ञातो वने वासो राजमध्ये मया ह्ययम् ॥
← Previous (Ch. 344) Full Table of Contents Next (Ch. 346) →