Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 47

Araṇyakaparva (Vanaparva) Adhyāya 47

अरण्यकपर्व • अध्यायः 47

Araṇyakaparva (Vanaparva) Adhyāya 47 of the classical Mahābhārata with 13 verses.

Total: 13 Verses • Citations: MBh 3.47.1–13 • 250 Lexicon Terms
यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने । प्रव्राज्य पाण्डवान्वीरान्सर्वमेतन्निरर्थकम् ॥
कथं हि राजा पुत्रं स्वमुपेक्षेताल्पचेतसम् । दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान् ॥
किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम् । वानेयमथ वा कृष्टमेतदाख्यातु मे भवान् ॥
वानेयं च मृगांश्चैव शुद्धैर्बाणैर्निपातितान् । ब्राह्मणानां निवेद्याग्रमभुञ्जन्पुरुषर्षभाः ॥
तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने । अन्वयुर्ब्राह्मणा राजन्साग्नयोऽनग्नयस्तथा ॥
ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम् । दश मोक्षविदां तद्वद्यान्बिभर्ति युधिष्ठिरः ॥
रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्वनेचरान् । बाणैरुन्मथ्य विधिवद्ब्राह्मणेभ्यो न्यवेदयत् ॥
न तत्र कश्चिद्दुर्वर्णो व्याधितो वाप्यदृश्यत । कृशो वा दुर्बलो वापि दीनो भीतोऽपि वा नरः ॥
पुत्रानिव प्रियाञ्ज्ञातीन्भ्रातॄनिव सहोदरान् । पुपोष कौरवश्रेष्ठो धर्मराजो युधिष्ठिरः ॥
पतींश्च द्रौपदी सर्वान्द्विजांश्चैव यशस्विनी । मातेव भोजयित्वाग्रे शिष्टमाहारयत्तदा ॥
प्राचीं राजा दक्षिणां भीमसेनो; यमौ प्रतीचीमथ वाप्युदीचीम् । धनुर्धरा मांसहेतोर्मृगाणां; क्षयं चक्रुर्नित्यमेवोपगम्य ॥
तथा तेषां वसतां काम्यके वै; विहीनानामर्जुनेनोत्सुकानाम् । पञ्चैव वर्षाणि तदा व्यतीयु;रधीयतां जपतां जुह्वतां च ॥
← Previous (Ch. 343) Full Table of Contents Next (Ch. 345) →