Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 45

Araṇyakaparva (Vanaparva) Adhyāya 45

अरण्यकपर्व • अध्यायः 45

Araṇyakaparva (Vanaparva) Adhyāya 45 of the classical Mahābhārata with 39 verses.

Total: 39 Verses • Citations: MBh 3.45.1–39 • 250 Lexicon Terms
ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम् । शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा ॥
पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम् । प्रवेशयामासुरथो पुरंदरनिवेशनम् ॥
एवं संपूजितो जिष्णुरुवास भवने पितुः । उपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः ॥
शक्रस्य हस्ताद्दयितं वज्रमस्त्रं दुरुत्सहम् । अशनीश्च महानादा मेघबर्हिणलक्षणाः ॥
गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः । पुरंदरनियोगाच्च पञ्चाब्दमवसत्सुखी ॥
ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते । नृत्तं गीतं च कौन्तेय चित्रसेनादवाप्नुहि ॥
वादित्रं देवविहितं नृलोके यन्न विद्यते । तदर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति ॥
सखायं प्रददौ चास्य चित्रसेनं पुरंदरः । स तेन सह संगम्य रेमे पार्थो निरामयः ॥
कदाचिदटमानस्तु महर्षिरुत लोमशः । जगाम शक्रभवनं पुरंदरदिदृक्षया ॥
स समेत्य नमस्कृत्य देवराजं महामुनिः । ददर्शार्धासनगतं पाण्डवं वासवस्य ह ॥
ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे । निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः ॥
तस्य दृष्ट्वाभवद्बुद्धिः पार्थमिन्द्रासने स्थितम् । कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान् ॥
किं त्वस्य सुकृतं कर्म लोका वा के विनिर्जिताः । य एवमुपसंप्राप्तः स्थानं देवनमस्कृतम् ॥
तस्य विज्ञाय संकल्पं शक्रो वृत्रनिषूदनः । लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः ॥
ब्रह्मर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम् । नायं केवलमर्त्यो वै क्षत्रियत्वमुपागतः ॥
महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः । अस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात् ॥
अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम् । शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम् ॥
नरनारायणौ यौ तौ पुराणावृषिसत्तमौ । ताविमावभिजानीहि हृषीकेशधनंजयौ ॥
यन्न शक्यं सुरैर्द्रष्टुमृषिभिर्वा महात्मभिः । तदाश्रमपदं पुण्यं बदरी नाम विश्रुतम् ॥
स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च । यतः प्रववृते गङ्गा सिद्धचारणसेविता ॥
तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातौ महाद्युती । भूमेर्भारावतरणं महावीर्यौ करिष्यतः ॥
उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति । विप्रियेषु स्थितास्माकं वरदानेन मोहिताः ॥
तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः । देवान्न गणयन्ते च तथा दत्तवरा हि ते ॥
पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः । सर्वे देवनिकाया हि नालं योधयितुं स्म तान् ॥
योऽसौ भूमिगतः श्रीमान्विष्णुर्मधुनिषूदनः । कपिलो नाम देवोऽसौ भगवानजितो हरिः ॥
येन पूर्वं महात्मानः खनमाना रसातलम् । दर्शनादेव निहताः सगरस्यात्मजा विभो ॥
तेन कार्यं महत्कार्यमस्माकं द्विजसत्तम । पार्थेन च महायुद्धे समेताभ्यामसंशयम् ॥
अयं तेषां समस्तानां शक्तः प्रतिसमासने । तान्निहत्य रणे शूरः पुनर्यास्यति मानुषान् ॥
भवांश्चास्मन्नियोगेन यातु तावन्महीतलम् । काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम् ॥
स वाच्यो मम संदेशाद्धर्मात्मा सत्यसंगरः । नोत्कण्ठा फल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति ॥
नाशुद्धबाहुवीर्येण नाकृतास्त्रेण वा रणे । भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम् ॥
गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः । नृत्तवादित्रगीतानां दिव्यानां पारमेयिवान् ॥
भवानपि विविक्तानि तीर्थानि मनुजेश्वर । भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिंदम ॥
तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः । राज्यं भोक्ष्यसि राजेन्द्र सुखी विगतकल्मषः ॥
भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतले । त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः ॥
गिरिदुर्गेषु हि सदा देशेषु विषमेषु च । वसन्ति राक्षसा रौद्रास्तेभ्यो रक्षेत्सदा भवान् ॥
स तथेति प्रतिज्ञाय लोमशः सुमहातपाः । काम्यकं वनमुद्दिश्य समुपायान्महीतलम् ॥
ददर्श तत्र कौन्तेयं धर्मराजमरिंदमम् । तापसैर्भ्रातृभिश्चैव सर्वतः परिवारितम् ॥
← Previous (Ch. 341) Full Table of Contents Next (Ch. 343) →