Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 39

Araṇyakaparva (Vanaparva) Adhyāya 39

अरण्यकपर्व • अध्यायः 39

Araṇyakaparva (Vanaparva) Adhyāya 39 of the classical Mahābhārata with 31 verses.

Total: 31 Verses • Citations: MBh 3.39.1–31 • 250 Lexicon Terms
भगवञ्श्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः । विस्तरेण कथामेतां यथास्त्राण्युपलब्धवान् ॥
कथं स पुरुषव्याघ्रो दीर्घबाहुर्धनंजयः । वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् ॥
किं च तेन कृतं तत्र वसता ब्रह्मवित्तम । कथं च भगवान्स्थाणुर्देवराजश्च तोषितः ॥
एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम । त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह ॥
अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः । भवेन सह संग्रामं चकाराप्रतिमं किल । पुरा प्रहरतां श्रेष्ठः संग्रामेष्वपराजितः ॥
यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात् । शूराणामपि पार्थानां हृदयानि चकम्पिरे ॥
यद्यच्च कृतवानन्यत्पार्थस्तदखिलं वद । न ह्यस्य निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये । चरितं तस्य शूरस्य तन्मे सर्वं प्रकीर्तय ॥
कथयिष्यामि ते तात कथामेतां महात्मनः । दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम् ॥
गात्रसंस्पर्शसंबन्धं त्र्यम्बकेण सहानघ । पार्थस्य देवदेवेन शृणु सम्यक्समागमम् ॥
युधिष्ठिरनियोगात्स जगामामितविक्रमः । शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शंकरम् ॥
दिव्यं तद्धनुरादाय खड्गं च पुरुषर्षभः । महाबलो महाबाहुरर्जुनः कार्यसिद्धये । दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति ॥
ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः । त्वरया परया युक्तस्तपसे धृतनिश्चयः । वनं कण्टकितं घोरमेक एवान्वपद्यत ॥
नानापुष्पफलोपेतं नानापक्षिनिषेवितम् । नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥
ततः प्रयाते कौन्तेये वनं मानुषवर्जितम् । शङ्खानां पटहानां च शब्दः समभवद्दिवि ॥
पुष्पवर्षं च सुमहन्निपपात महीतले । मेघजालं च विततं छादयामास सर्वतः ॥
अतीत्य वनदुर्गाणि संनिकर्षे महागिरेः । शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा ॥
तत्रापश्यद्द्रुमान्फुल्लान्विहगैर्वल्गु नादितान् । नदीश्च बहुलावर्ता नीलवैडूर्यसंनिभाः ॥
हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा । पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः ॥
मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः । पुण्यशीतामलजलाः पश्यन्प्रीतमनाभवत् ॥
रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा । तपस्युग्रे वर्तमान उग्रतेजा महामनाः ॥
दर्भचीरं निवस्याथ दण्डाजिनविभूषितः । पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः । द्विगुणेनैव कालेन द्वितीयं मासमत्यगात् ॥
तृतीयमपि मासं स पक्षेणाहारमाचरन् । शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान् ॥
चतुर्थे त्वथ संप्राप्ते मासि पूर्णे ततः परम् । वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः । ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः ॥
सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः । विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः ॥
ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम् । शितिकण्ठं महाभागं प्रणिपत्य प्रसाद्य च । सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह ॥
एष पार्थो महातेजा हिमवत्पृष्ठमाश्रितः । उग्रे तपसि दुष्पारे स्थितो धूमाययन्दिशः ॥
तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम् । संतापयति नः सर्वानसौ साधु निवार्यताम् ॥
शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः । अहमस्य विजानामि संकल्पं मनसि स्थितम् ॥
नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः । यत्त्वस्य काङ्क्षितं सर्वं तत्करिष्येऽहमद्य वै ॥
ते श्रुत्व शर्ववचनमृषयः सत्यवादिनः । प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमान् ॥
← Previous (Ch. 335) Full Table of Contents Next (Ch. 337) →