Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 38

Araṇyakaparva (Vanaparva) Adhyāya 38

अरण्यकपर्व • अध्यायः 38

Araṇyakaparva (Vanaparva) Adhyāya 38 of the classical Mahābhārata with 46 verses.

Total: 46 Verses • Citations: MBh 3.38.1–46 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः । संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत् ॥
विविक्ते विदितप्रज्ञमर्जुनं भरतर्षभम् । सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन् ॥
स मुहूर्तमिव ध्यात्वा वनवासमरिंदमः । धनंजयं धर्मराजो रहसीदमुवाच ह ॥
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत । धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः ॥
ब्राह्मं दैवमासुरं च सप्रयोगचिकित्सितम् । सर्वास्त्राणां प्रयोगं च तेऽभिजानन्ति कृत्स्नशः ॥
ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः । संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते ॥
सर्वयोधेषु चैवास्य सदा वृत्तिरनुत्तमा । शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः ॥
अद्य चेयं मही कृत्स्ना दुर्योधनवशानुगा । त्वयि व्यपाश्रयोऽस्माकं त्वयि भारः समाहितः । तत्र कृत्यं प्रपश्यामि प्राप्तकालमरिंदम ॥
कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया । तया प्रयुक्तया सम्यग्जगत्सर्वं प्रकाशते । तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः ॥
देवतानां यथाकालं प्रसादं प्रतिपालय । तपसा योजयात्मानमुग्रेण भरतर्षभ ॥
धनुष्मान्कवची खड्गी मुनिः सारसमन्वितः । न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम् । इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानि धनंजय ॥
वृत्राद्भीतैस्तदा देवैर्बलमिन्द्रे समर्पितम् । तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे ॥
शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति । दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम् ॥
एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः । दीक्षितं विधिना तेन यतवाक्कायमानसम् । अनुजज्ञे ततो वीरं भ्राता भ्रातरमग्रजः ॥
निदेशाद्धर्मराजस्य द्रष्टुं देवं पुरंदरम् । धनुर्गाण्डीवमादाय तथाक्षय्यौ महेषुधी ॥
कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान् । हुत्वाग्निं ब्राह्मणान्निष्कैः स्वस्ति वाच्य महाभुजः ॥
प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः । वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदीक्ष्य च ॥
तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम् । अब्रुवन्ब्राह्मणाः सिद्धा भूतान्यन्तर्हितानि च । क्षिप्रं प्राप्नुहि कौन्तेय मनसा यद्यदिच्छसि ॥
तं सिंहमिव गच्छन्तं शालस्कन्धोरुमर्जुनम् । मनांस्यादाय सर्वेषां कृष्णा वचनमब्रवीत् ॥
यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनंजय । तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि ॥
मास्माकं क्षत्रियकुले जन्म कश्चिदवाप्नुयात् । ब्राह्मणेभ्यो नमो नित्यं येषां युद्धे न जीविका ॥
नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे । रंस्यन्ते वीरकर्माणि कीर्तयन्तः पुनः पुनः ॥
नैव नः पार्थ भोगेषु न धने नोत जीविते । तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि ॥
त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते । जीवितं मरणं चैव राज्यमैश्वर्यमेव च । आपृष्टो मेऽसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव ॥
नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्यनामयम् । स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत । दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः ॥
ततः प्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः । प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः ॥
तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः । युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः ॥
सोऽगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः । मनोजवगतिर्भूत्वा योगयुक्तो यथानिलः ॥
हिमवन्तमतिक्रम्य गन्धमादनमेव च । अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः ॥
← Previous (Ch. 334) Full Table of Contents Next (Ch. 336) →