Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 29

Araṇyakaparva (Vanaparva) Adhyāya 29

अरण्यकपर्व • अध्यायः 29

Araṇyakaparva (Vanaparva) Adhyāya 29 of the classical Mahābhārata with 36 verses.

Total: 36 Verses • Citations: MBh 3.29.1–36 • 250 Lexicon Terms
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च ॥
असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम् । बलिः पप्रच्छ दैत्येन्द्रं प्रह्लादं पितरं पितुः ॥
क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत । एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते ॥
श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम् । करिष्यामि हि तत्सर्वं यथावदनुशासनम् ॥
तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः । सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते ॥
न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा । इति तात विजानीहि द्वयमेतदसंशयम् ॥
यो नित्यं क्षमते तात बहून्दोषान्स विन्दति । भृत्याः परिभवन्त्येनमुदासीनास्तथैव च ॥
सर्वभूतानि चाप्यस्य न नमन्ते कदाचन । तस्मान्नित्यं क्षमा तात पण्डितैरपवादिता ॥
अवज्ञाय हि तं भृत्या भजन्ते बहुदोषताम् । आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः ॥
यानं वस्त्राण्यलंकाराञ्शयनान्यासनानि च । भोजनान्यथ पानानि सर्वोपकरणानि च ॥
आददीरन्नधिकृता यथाकाममचेतसः । प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात् ॥
न चैनं भर्तृपूजाभिः पूजयन्ति कदाचन । अवज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम् ॥
क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्यपि । प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः ॥
अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः । दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः ॥
तथा च नित्यमुदिता यदि स्वल्पमपीश्वरात् । दण्डमर्हन्ति दुष्यन्ति दुष्टाश्चाप्यपकुर्वते ॥
एते चान्ये च बहवो नित्यं दोषाः क्षमावताम् । अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम् ॥
अस्थाने यदि वा स्थाने सततं रजसावृतः । क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा ॥
मित्रैः सह विरोधं च प्राप्नुते तेजसावृतः । प्राप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा ॥
सोऽवमानादर्थहानिमुपालम्भमनादरम् । संतापद्वेषलोभांश्च शत्रूंश्च लभते नरः ॥
क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषो नयन् । भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि ॥
योऽपकर्तॄंश्च कर्तॄंश्च तेजसैवोपगच्छति । तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ॥
यस्मादुद्विजते लोकः कथं तस्य भवो भवेत् । अन्तरं ह्यस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् । तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत् ॥
काले मृदुर्यो भवति काले भवति दारुणः । स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ॥
क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान् । ये ते नित्यमसंत्याज्या यथा प्राहुर्मनीषिणः ॥
पूर्वोपकारी यस्तु स्यादपराधेऽगरीयसि । उपकारेण तत्तस्य क्षन्तव्यमपराधिनः ॥
अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम् । न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै ॥
अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम् । पापान्स्वल्पेऽपि तान्हन्यादपराधे तथानृजून् ॥
सर्वस्यैकोऽपराधस्ते क्षन्तव्यः प्राणिनो भवेत् । द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत् ॥
अजानता भवेत्कश्चिदपराधः कृतो यदि । क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया ॥
मृदुना मार्दवं हन्ति मृदुना हन्ति दारुणम् । नासाध्यं मृदुना किंचित्तस्मात्तीक्ष्णतरो मृदुः ॥
देशकालौ तु संप्रेक्ष्य बलाबलमथात्मनः । नादेशकाले किंचित्स्याद्देशः कालः प्रतीक्ष्यते । तथा लोकभयाच्चैव क्षन्तव्यमपराधिनः ॥
एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः । अतोऽन्यथानुवर्तत्सु तेजसः काल उच्यते ॥
तदहं तेजसः कालं तव मन्ये नराधिप । धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु ॥
न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति । तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि ॥
मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः । काले प्राप्ते द्वयं ह्येतद्यो वेद स महीपतिः ॥
← Previous (Ch. 325) Full Table of Contents Next (Ch. 327) →