Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 27

Araṇyakaparva (Vanaparva) Adhyāya 27

अरण्यकपर्व • अध्यायः 27

Araṇyakaparva (Vanaparva) Adhyāya 27 of the classical Mahābhārata with 26 verses.

Total: 26 Verses • Citations: MBh 3.27.1–26 • 250 Lexicon Terms
वसत्स्वथ द्वैतवने पाण्डवेषु महात्मसु । अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत ॥
ईर्यमाणेन सततं ब्रह्मघोषेण सर्वतः । ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः ॥
यजुषामृचां च साम्नां च गद्यानां चैव सर्वशः । आसीदुच्चार्यमाणानां निस्वनो हृदयंगमः ॥
ज्याघोषः पाण्डवेयानां ब्रह्मघोषश्च धीमताम् । संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत ॥
अथाब्रवीद्बको दाल्भ्यो धर्मराजं युधिष्ठिरम् । संध्यां कौन्तेयमासीनमृषिभिः परिवारितम् ॥
पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम् । होमवेलां कुरुश्रेष्ठ संप्रज्वलितपावकाम् ॥
चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः । भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह ॥
आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः । सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः संगतास्त्वया ॥
इदं तु वचनं पार्थ शृण्वेकाग्रमना मम । भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव ॥
ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह । उदीर्णौ दहतः शत्रून्वनानीवाग्निमारुतौ ॥
नाब्राह्मणस्तात चिरं बुभूषे;दिच्छन्निमं लोकममुं च जेतुम् । विनीतधर्मार्थमपेतमोहं; लब्ध्वा द्विजं नुदति नृपः सपत्नान् ॥
चरन्नैःश्रेयसं धर्मं प्रजापालनकारितम् । नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात् ॥
अनूनमासीदसुरस्य कामै;र्वैरोचनेः श्रीरपि चाक्षयासीत् । लब्ध्वा महीं ब्राह्मणसंप्रयोगा;त्तेष्वाचरन्दुष्टमतो व्यनश्यत् ॥
नाब्राह्मणं भूमिरियं सभूति;र्वर्णं द्वितीयं भजते चिराय । समुद्रनेमिर्नमते तु तस्मै; यं ब्राह्मणः शास्ति नयैर्विनीतः ॥
कुञ्जरस्येव संग्रामेऽपरिगृह्याङ्कुशग्रहम् । ब्राह्मणैर्विप्रहीणस्य क्षत्रस्य क्षीयते बलम् ॥
ब्रह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम् । तौ यदा चरतः सार्धमथ लोकः प्रसीदति ॥
यथा हि सुमहानग्निः कक्षं दहति सानिलः । तथा दहति राजन्यो ब्राह्मणेन समं रिपून् ॥
ब्राह्मणेभ्योऽथ मेधावी बुद्धिपर्येषणं चरेत् । अलब्धस्य च लाभाय लब्धस्य च विवृद्धये ॥
अलब्धलाभाय च लब्धवृद्धये; यथार्हतीर्थप्रतिपादनाय । यशस्विनं वेदविदं विपश्चितं; बहुश्रुतं ब्राह्मणमेव वासय ॥
ब्राह्मणेषूत्तमा वृत्तिस्तव नित्यं युधिष्ठिर । तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः ॥
ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमपूजयन् । युधिष्ठिरे स्तूयमाने भूयः सुमनसोऽभवन् ॥
द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः । इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात् ॥
कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः । हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः ॥
ऋतवाक्च सुवाक्चैव बृहदश्व ऋतावसुः । ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः ॥
एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः । अजातशत्रुमानर्चुः पुरंदरमिवर्षयः ॥
← Previous (Ch. 323) Full Table of Contents Next (Ch. 325) →