Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 58

Sabhāparva Adhyāya 58

सभापर्व • अध्यायः 58

Sabhāparva Adhyāya 58 of the classical Mahābhārata with 44 verses.

Total: 44 Verses • Citations: MBh 2.58.1–44 • 250 Lexicon Terms • Page 2 of 2 (Verses 14 shown)
एवमुक्त्वा मताक्षस्तान्ग्लहे सर्वानवस्थितान् । पराजयल्लोकवीरानाक्षेपेण पृथक्पृथक् ॥
अस्ति वै ते प्रिया देवी ग्लह एकोऽपराजितः । पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर्जय ॥
नैव ह्रस्वा न महती नातिकृष्णा न रोहिणी । सरागरक्तनेत्रा च तया दीव्याम्यहं त्वया ॥
शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया । शारदोत्पलसेविन्या रूपेण श्रीसमानया ॥
तथैव स्यादानृशंस्यात्तथा स्याद्रूपसंपदा । तथा स्याच्छीलसंपत्त्या यामिच्छेत्पुरुषः स्त्रियम् ॥
चरमं संविशति या प्रथमं प्रतिबुध्यते । आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ॥
आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव च । वेदीमध्या दीर्घकेशी ताम्राक्षी नातिरोमशा ॥
तयैवंविधया राजन्पाञ्चाल्याहं सुमध्यया । ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल ॥
एवमुक्ते तु वचने धर्मराजेन भारत । धिग्धिगित्येव वृद्धानां सभ्यानां निःसृता गिरः ॥
चुक्षुभे सा सभा राजन्राज्ञां संजज्ञिरे कथाः । भीष्मद्रोणकृपादीनां स्वेदश्च समजायत ॥
शिरो गृहीत्वा विदुरो गतसत्त्व इवाभवत् । आस्ते ध्यायन्नधोवक्त्रो निःश्वसन्पन्नगो यथा ॥
धृतराष्ट्रस्तु संहृष्टः पर्यपृच्छत्पुनः पुनः । किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत ॥
जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः । इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतज्जलम् ॥
सौबलस्त्वविचार्यैव जितकाशी मदोत्कटः । जितमित्येव तानक्षान्पुनरेवान्वपद्यत ॥
← Previous (Ch. 282) Full Table of Contents Next (Ch. 284) →