Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 47

Sabhāparva Adhyāya 47

सभापर्व • अध्यायः 47

Sabhāparva Adhyāya 47 of the classical Mahābhārata with 32 verses.

Total: 32 Verses • Citations: MBh 2.47.1–32 • 250 Lexicon Terms
यन्मया पाण्डवानां तु दृष्टं तच्छृणु भारत । आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः ॥
न विन्दे दृढमात्मानं दृष्ट्वाहं तदरेर्धनम् । फलतो भूमितो वापि प्रतिपद्यस्व भारत ॥
ऐडांश्चैलान्वार्षदंशाञ्जातरूपपरिष्कृतान् । प्रावाराजिनमुख्यांश्च काम्बोजः प्रददौ वसु ॥
अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान् । उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः ॥
गोवासना ब्राह्मणाश्च दासमीयाश्च सर्वशः । प्रीत्यर्थं ते महाभागा धर्मराज्ञो महात्मनः । त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ॥
कमण्डलूनुपादाय जातरूपमयाञ्शुभान् । एवं बलिं प्रदायाथ प्रवेशं लेभिरे ततः ॥
शतं दासीसहस्राणां कार्पासिकनिवासिनाम् । श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः । शूद्रा विप्रोत्तमार्हाणि राङ्कवान्यजिनानि च ॥
बलिं च कृत्स्नमादाय भरुकच्छनिवासिनः । उपनिन्युर्महाराज हयान्गान्धारदेशजान् ॥
इन्द्रकृष्टैर्वर्तयन्ति धान्यैर्नदीमुखैश्च ये । समुद्रनिष्कुटे जाताः परिसिन्धु च मानवाः ॥
ते वैरामाः पारदाश्च वङ्गाश्च कितवैः सह । विविधं बलिमादाय रत्नानि विविधानि च ॥
अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु । कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः ॥
प्राग्ज्योतिषाधिपः शूरो म्लेच्छानामधिपो बली । यवनैः सहितो राजा भगदत्तो महारथः ॥
आजानेयान्हयाञ्शीघ्रानादायानिलरंहसः । बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः ॥
अश्मसारमयं भाण्डं शुद्धदन्तत्सरूनसीन् । प्राग्ज्योतिषोऽथ तद्दत्त्वा भगदत्तोऽव्रजत्तदा ॥
द्व्यक्षांस्त्र्यक्षाँल्ललाटाक्षान्नानादिग्भ्यः समागतान् । औष्णीषाननिवासांश्च बाहुकान्पुरुषादकान् ॥
एकपादांश्च तत्राहमपश्यं द्वारि वारितान् । बल्यर्थं ददतस्तस्मै हिरण्यं रजतं बहु ॥
इन्द्रगोपकवर्णाभाञ्शुकवर्णान्मनोजवान् । तथैवेन्द्रायुधनिभान्संध्याभ्रसदृशानपि ॥
अनेकवर्णानारण्यान्गृहीत्वाश्वान्मनोजवान् । जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः ॥
चीनान्हूणाञ्शकानोड्रान्पर्वतान्तरवासिनः । वार्ष्णेयान्हारहूणांश्च कृष्णान्हैमवतांस्तथा ॥
न पारयाम्यभिगतान्विविधान्द्वारि वारितान् । बल्यर्थं ददतस्तस्य नानारूपाननेकशः ॥
कृष्णग्रीवान्महाकायान्रासभाञ्शतपातिनः । आहार्षुर्दशसाहस्रान्विनीतान्दिक्षु विश्रुतान् ॥
प्रमाणरागस्पर्शाढ्यं बाह्लीचीनसमुद्भवम् । और्णं च राङ्कवं चैव कीटजं पट्टजं तथा ॥
कुट्टीकृतं तथैवान्यत्कमलाभं सहस्रशः । श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम् ॥
निशितांश्चैव दीर्घासीनृष्टिशक्तिपरश्वधान् । अपरान्तसमुद्भूतांस्तथैव परशूञ्शितान् ॥
रसान्गन्धांश्च विविधान्रत्नानि च सहस्रशः । बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ॥
शकास्तुखाराः कङ्काश्च रोमशाः शृङ्गिणो नराः । महागमान्दूरगमान्गणितानर्बुदं हयान् ॥
कोटिशश्चैव बहुशः सुवर्णं पद्मसंमितम् । बलिमादाय विविधं द्वारि तिष्ठन्ति वारिताः ॥
आसनानि महार्हाणि यानानि शयनानि च । मणिकाञ्चनचित्राणि गजदन्तमयानि च ॥
रथांश्च विविधाकाराञ्जातरूपपरिष्कृतान् । हयैर्विनीतैः संपन्नान्वैयाघ्रपरिवारणान् ॥
विचित्रांश्च परिस्तोमान्रत्नानि च सहस्रशः । नाराचानर्धनाराचाञ्शस्त्राणि विविधानि च ॥
एतद्दत्त्वा महद्द्रव्यं पूर्वदेशाधिपो नृपः । प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः ॥
← Previous (Ch. 271) Full Table of Contents Next (Ch. 273) →