Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 38

Sabhāparva Adhyāya 38

सभापर्व • अध्यायः 38

Sabhāparva Adhyāya 38 of the classical Mahābhārata with 41 verses.

Total: 41 Verses • Citations: MBh 2.38.1–41 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
विभीषिकाभिर्बह्वीभिर्भीषयन्सर्वपार्थिवान् । न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः ॥
युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया । वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः ॥
नावि नौरिव संबद्धा यथान्धो वान्धमन्वियात् । तथाभूता हि कौरव्या भीष्म येषां त्वमग्रणीः ॥
पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः । त्वया कीर्तयतास्माकं भूयः प्रच्यावितं मनः ॥
अवलिप्तस्य मूर्खस्य केशवं स्तोतुमिच्छतः । कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते ॥
यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः । तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि ॥
यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम् । तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ ॥
चेतनारहितं काष्ठं यद्यनेन निपातितम् । पादेन शकटं भीष्म तत्र किं कृतमद्भुतम् ॥
वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः । तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम ॥
भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि । इति ते भीष्म शृण्वानाः परं विस्मयमागताः ॥
यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः । स चानेन हतः कंस इत्येतन्न महाद्भुतम् ॥
न ते श्रुतमिदं भीष्म नूनं कथयतां सताम् । यद्वक्ष्ये त्वामधर्मज्ञ वाक्यं कुरुकुलाधम ॥
स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च । यस्य चान्नानि भुञ्जीत यश्च स्याच्छरणागतः ॥
इति सन्तोऽनुशासन्ति सज्जना धर्मिणः सदा । भीष्म लोके हि तत्सर्वं वितथं त्वयि दृश्यते ॥
ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम । अजानत इवाख्यासि संस्तुवन्कुरुसत्तम । गोघ्नः स्त्रीघ्नश्च सन्भीष्म कथं संस्तवमर्हति ॥
असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः । संभावयति यद्येवं त्वद्वाक्याच्च जनार्दनः । एवमेतत्सर्वमिति सर्वं तद्वितथं ध्रुवम् ॥
न गाथा गाथिनं शास्ति बहु चेदपि गायति । प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा ॥
नूनं प्रकृतिरेषा ते जघन्या नात्र संशयः । अतः पापीयसी चैषां पाण्डवानामपीष्यते ॥
येषामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः । धर्मवाक्त्वमधर्मज्ञः सतां मार्गादवप्लुतः ॥
को हि धर्मिणमात्मानं जानञ्ज्ञानवतां वरः । कुर्याद्यथा त्वया भीष्म कृतं धर्ममवेक्षता ॥
अन्यकामा हि धर्मज्ञ कन्यका प्राज्ञमानिना । अम्बा नामेति भद्रं ते कथं सापहृता त्वया ॥
यां त्वयापहृतां भीष्म कन्यां नैषितवान्नृपः । भ्राता विचित्रवीर्यस्ते सतां वृत्तमनुष्ठितः ॥
दारयोर्यस्य चान्येन मिषतः प्राज्ञमानिनः । तव जातान्यपत्यानि सज्जनाचरिते पथि ॥
न हि धर्मोऽस्ति ते भीष्म ब्रह्मचर्यमिदं वृथा । यद्धारयसि मोहाद्वा क्लीबत्वाद्वा न संशयः ॥
न त्वहं तव धर्मज्ञ पश्याम्युपचयं क्वचित् । न हि ते सेविता वृद्धा य एवं धर्ममब्रुवन् ॥
इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः । सर्वमेतदपत्यस्य कलां नार्हति षोडशीम् ॥
व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत् । सर्वं तदनपत्यस्य मोघं भवति निश्चयात् ॥
सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुशासनात् । हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम् ॥
एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा । भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः ॥
← Previous (Ch. 262) Full Table of Contents Next (Ch. 264) →