Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 37

Sabhāparva Adhyāya 37

सभापर्व • अध्यायः 37

Sabhāparva Adhyāya 37 of the classical Mahābhārata with 16 verses.

Total: 16 Verses • Citations: MBh 2.37.1–16 • 250 Lexicon Terms
ततः सागरसंकाशं दृष्ट्वा नृपतिसागरम् । रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः ॥
भीष्मं मतिमतां श्रेष्ठं वृद्धं कुरुपितामहम् । बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा ॥
असौ रोषात्प्रचलितो महान्नृपतिसागरः । अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह ॥
यज्ञस्य च न विघ्नः स्यात्प्रजानां च शिवं भवेत् । यथा सर्वत्र तत्सर्वं ब्रूहि मेऽद्य पितामह ॥
इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे । उवाचेदं वचो भीष्मस्ततः कुरुपितामहः ॥
मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति । शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः ॥
प्रसुप्ते हि यथा सिंहे श्वानस्तत्र समागताः । भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः ॥
वृष्णिसिंहस्य सुप्तस्य तथेमे प्रमुखे स्थिताः । भषन्ते तात संक्रुद्धाः श्वानः सिंहस्य संनिधौ ॥
न हि संबुध्यते तावत्सुप्तः सिंह इवाच्युतः । तेन सिंहीकरोत्येतान्नृसिंहश्चेदिपुंगवः ॥
पार्थिवान्पार्थिवश्रेष्ठ शिशुपालोऽल्पचेतनः । सर्वान्सर्वात्मना तात नेतुकामो यमक्षयम् ॥
नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः । यदस्य शिशुपालस्थं तेजस्तिष्ठति भारत ॥
विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर । चेदिराजस्य कौन्तेय सर्वेषां च महीक्षिताम् ॥
आदातुं हि नरव्याघ्रो यं यमिच्छत्ययं यदा । तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा ॥
चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः । प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर ॥
इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः । भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत ॥
← Previous (Ch. 261) Full Table of Contents Next (Ch. 263) →