Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 36

Sabhāparva Adhyāya 36

सभापर्व • अध्यायः 36

Sabhāparva Adhyāya 36 of the classical Mahābhārata with 16 verses.

Total: 16 Verses • Citations: MBh 2.36.1–16 • 250 Lexicon Terms
एवमुक्त्वा ततो भीष्मो विरराम महायशाः । व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः ॥
केशवं केशिहन्तारमप्रमेयपराक्रमम् । पूज्यमानं मया यो वः कृष्णं न सहते नृपाः ॥
सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम् । एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः ॥
मतिमन्तस्तु ये केचिदाचार्यं पितरं गुरुम् । अर्च्यमर्चितमर्चार्हमनुजानन्तु ते नृपाः ॥
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम् । मानिनां बलिनां राज्ञां मध्ये संदर्शिते पदे ॥
ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि । अदृश्यरूपा वाचश्चाप्यब्रुवन्साधु साध्विति ॥
आविध्यदजिनं कृष्णं भविष्यद्भूतजल्पकः । सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित् ॥
तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाः । संप्रादृश्यन्त संक्रुद्धा विवर्णवदनास्तथा ॥
युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम् । अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात् ॥
सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ । आमिषादपकृष्टानां सिंहानामिव गर्जताम् ॥
तं बलौघमपर्यन्तं राजसागरमक्षयम् । कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा ॥
पूजयित्वा तु पूजार्हं ब्रह्मक्षत्रं विशेषतः । सहदेवो नृणां देवः समापयत कर्म तत् ॥
तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः । अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान् ॥
स्थितः सेनापतिर्वोऽहं मन्यध्वं किं नु सांप्रतम् । युधि तिष्ठाम संनह्य समेतान्वृष्णिपाण्डवान् ॥
इति सर्वान्समुत्साह्य राज्ञस्तांश्चेदिपुंगवः । यज्ञोपघाताय ततः सोऽमन्त्रयत राजभिः ॥
← Previous (Ch. 260) Full Table of Contents Next (Ch. 262) →