Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 58

Sabhāparva Adhyāya 58

सभापर्व • अध्यायः 58

Sabhāparva Adhyāya 58 of the classical Mahābhārata with 44 verses.

Total: 44 Verses • Citations: MBh 2.58.1–44 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
बहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर । आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ॥
मम वित्तमसंख्येयं यदहं वेद सौबल । अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि ॥
अयुतं प्रयुतं चैव खर्वं पद्मं तथार्बुदम् । शङ्खं चैव निखर्वं च समुद्रं चात्र पण्यताम् । एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
गवाश्वं बहुधेनूकमसंख्येयमजाविकम् । यत्किंचिदनुवर्णानां प्राक्सिन्धोरपि सौबल । एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
पुरं जनपदो भूमिरब्राह्मणधनैः सह । अब्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं मम । एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
राजपुत्रा इमे राजञ्शोभन्ते येन भूषिताः । कुण्डलानि च निष्काश्च सर्वं चाङ्गविभूषणम् । एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः । नकुलो ग्लह एको मे यच्चैतत्स्वगतं धनम् ॥
प्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिर । अस्माकं धनतां प्राप्तो भूयस्त्वं केन दीव्यसि ॥
एवमुक्त्वा तु शकुनिस्तानक्षान्प्रत्यपद्यत । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
अयं धर्मान्सहदेवोऽनुशास्ति; लोके ह्यस्मिन्पण्डिताख्यां गतश्च । अनर्हता राजपुत्रेण तेन; त्वया दीव्याम्यप्रियवत्प्रियेण ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया । गरीयांसौ तु ते मन्ये भीमसेनधनंजयौ ॥
अधर्मं चरसे नूनं यो नावेक्षसि वै नयम् । यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि ॥
गर्ते मत्तः प्रपतति प्रमत्तः स्थाणुमृच्छति । ज्येष्ठो राजन्वरिष्ठोऽसि नमस्ते भरतर्षभ ॥
स्वप्ने न तानि पश्यन्ति जाग्रतो वा युधिष्ठिर । कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव ॥
यो नः संख्ये नौरिव पारनेता; जेता रिपूणां राजपुत्रस्तरस्वी । अनर्हता लोकवीरेण तेन; दीव्याम्यहं शकुने फल्गुनेन ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
अयं मया पाण्डवानां धनुर्धरः; पराजितः पाण्डवः सव्यसाची । भीमेन राजन्दयितेन दीव्य; यत्कैतव्यं पाण्डव तेऽवशिष्टम् ॥
यो नो नेता यो युधां नः प्रणेता; यथा वज्री दानवशत्रुरेकः । तिर्यक्प्रेक्षी संहतभ्रूर्महात्मा; सिंहस्कन्धो यश्च सदात्यमर्षी ॥
बलेन तुल्यो यस्य पुमान्न विद्यते; गदाभृतामग्र्य इहारिमर्दनः । अनर्हता राजपुत्रेण तेन; दीव्याम्यहं भीमसेनेन राजन् ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
बहु वित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान् । आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ॥
अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथा । कुर्यामस्ते जिताः कर्म स्वयमात्मन्युपप्लवे ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
एतत्पापिष्ठमकरोर्यदात्मानं पराजितः । शिष्टे सति धने राजन्पाप आत्मपराजयः ॥
← Previous (Ch. 282) Full Table of Contents Next (Ch. 284) →