Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 34

Sabhāparva Adhyāya 34

सभापर्व • अध्यायः 34

Sabhāparva Adhyāya 34 of the classical Mahābhārata with 24 verses.

Total: 24 Verses • Citations: MBh 2.34.1–24 • 250 Lexicon Terms
नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु । महीपतिषु कौरव्य राजवत्पार्थिवार्हणम् ॥
नायं युक्तः समाचारः पाण्डवेषु महात्मसु । यत्कामात्पुण्डरीकाक्षं पाण्डवार्चितवानसि ॥
बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः । अयं तत्राभ्यतिक्रान्त आपगेयोऽल्पदर्शनः ॥
त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया । भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम् ॥
कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम् । अर्हणामर्हति तथा यथा युष्माभिरर्चितः ॥
अथ वा मन्यसे कृष्णं स्थविरं भरतर्षभ । वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः ॥
अथ वा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान् । द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम् ॥
आचार्यं मन्यसे कृष्णमथ वा कुरुपुंगव । द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि ॥
ऋत्विजं मन्यसे कृष्णमथ वा कुरुनन्दन । द्वैपायने स्थिते विप्रे कथं कृष्णोऽर्चितस्त्वया ॥
नैव ऋत्विङ्न चाचार्यो न राजा मधुसूदनः । अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया ॥
अथ वाप्यर्चनीयोऽयं युष्माकं मधुसूदनः । किं राजभिरिहानीतैरवमानाय भारत ॥
वयं तु न भयादस्य कौन्तेयस्य महात्मनः । प्रयच्छामः करान्सर्वे न लोभान्न च सान्त्वनात् ॥
अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः । करानस्मै प्रयच्छामः सोऽयमस्मान्न मन्यते ॥
किमन्यदवमानाद्धि यदिमं राजसंसदि । अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि ॥
अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम् । को हि धर्मच्युते पूजामेवं युक्तां प्रयोजयेत् । योऽयं वृष्णिकुले जातो राजानं हतवान्पुरा ॥
अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात् । कृपणत्वं निविष्टं च कृष्णेऽर्घ्यस्य निवेदनात् ॥
यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः । ननु त्वयापि बोद्धव्यं यां पूजां माधवोऽर्हति ॥
अथ वा कृपणैरेतामुपनीतां जनार्दन । पूजामनर्हः कस्मात्त्वमभ्यनुज्ञातवानसि ॥
अयुक्तामात्मनः पूजां त्वं पुनर्बहु मन्यसे । हविषः प्राप्य निष्यन्दं प्राशितुं श्वेव निर्जने ॥
न त्वयं पार्थिवेन्द्राणामवमानः प्रयुज्यते । त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन ॥
क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम् । अराज्ञो राजवत्पूजा तथा ते मधुसूदन ॥
दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः । वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम् ॥
इत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात् । निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा ॥
← Previous (Ch. 258) Full Table of Contents Next (Ch. 260) →