Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 3

Sabhāparva Adhyāya 3

सभापर्व • अध्यायः 3

Sabhāparva Adhyāya 3 of the classical Mahābhārata with 35 verses.

Total: 35 Verses • Citations: MBh 2.3.1–35 • 250 Lexicon Terms
अथाब्रवीन्मयः पार्थमर्जुनं जयतां वरम् । आपृच्छे त्वां गमिष्यामि क्षिप्रमेष्यामि चाप्यहम् ॥
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति । यक्ष्यमाणेषु सर्वेषु दानवेषु तदा मया । कृतं मणिमयं भाण्डं रम्यं बिन्दुसरः प्रति ॥
सभायां सत्यसंधस्य यदासीद्वृषपर्वणः । आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत ॥
ततः सभां करिष्यामि पाण्डवाय यशस्विने । मनःप्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम् ॥
अस्ति बिन्दुसरस्येव गदा श्रेष्ठा कुरूद्वह । निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून् । सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा ॥
सा वै शतसहस्रस्य संमिता सर्वघातिनी । अनुरूपा च भीमस्य गाण्डीवं भवतो यथा ॥
वारुणश्च महाशङ्खो देवदत्तः सुघोषवान् । सर्वमेतत्प्रदास्यामि भवते नात्र संशयः । इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीमगाद्दिशम् ॥
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति । हिरण्यशृङ्गो भगवान्महामणिमयो गिरिः ॥
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः । दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः ॥
यत्रेष्ट्वा सर्वभूतानामीश्वरेण महात्मना । आहृताः क्रतवो मुख्याः शतं भरतसत्तम ॥
यत्र यूपा मणिमयाश्चित्याश्चापि हिरण्मयाः । शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः ॥
यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः । यत्र भूतपतिः सृष्ट्वा सर्वलोकान्सनातनः । उपास्यते तिग्मतेजा वृतो भूतैः सहस्रशः ॥
नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः । उपासते यत्र सत्रं सहस्रयुगपर्यये ॥
यत्रेष्टं वासुदेवेन सत्रैर्वर्षसहस्रकैः । श्रद्दधानेन सततं शिष्टसंप्रतिपत्तये ॥
सुवर्णमालिनो यूपाश्चित्याश्चाप्यतिभास्वराः । ददौ यत्र सहस्राणि प्रयुतानि च केशवः ॥
तत्र गत्वा स जग्राह गदां शङ्खं च भारत । स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः । किंकरैः सह रक्षोभिरगृह्णात्सर्वमेव तत् ॥
तदाहृत्य तु तां चक्रे सोऽसुरोऽप्रतिमां सभाम् । विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम् ॥
गदां च भीमसेनाय प्रवरां प्रददौ तदा । देवदत्तं च पार्थाय ददौ शङ्खमनुत्तमम् ॥
सभा तु सा महाराज शातकुम्भमयद्रुमा । दश किष्कुसहस्राणि समन्तादायताभवत् ॥
यथा वह्नेर्यथार्कस्य सोमस्य च यथैव सा । भ्राजमाना तथा दिव्या बभार परमं वपुः ॥
प्रतिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम् । प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा ॥
नगमेघप्रतीकाशा दिवमावृत्य विष्ठिता । आयता विपुला श्लक्ष्णा विपाप्मा विगतक्लमा ॥
उत्तमद्रव्यसंपन्ना मणिप्राकारमालिनी । बहुरत्ना बहुधना सुकृता विश्वकर्मणा ॥
न दाशार्ही सुधर्मा वा ब्रह्मणो वापि तादृशी । आसीद्रूपेण संपन्ना यां चक्रेऽप्रतिमां मयः ॥
तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च । सभामष्टौ सहस्राणि किंकरा नाम राक्षसाः ॥
अन्तरिक्षचरा घोरा महाकाया महाबलाः । रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः ॥
तस्यां सभायां नलिनीं चकाराप्रतिमां मयः । वैडूर्यपत्रविततां मणिनालमयाम्बुजाम् ॥
पद्मसौगन्धिकवतीं नानाद्विजगणायुताम् । पुष्पितैः पङ्कजैश्चित्रां कूर्ममत्स्यैश्च शोभिताम् ॥
सूपतीर्थामकलुषां सर्वर्तुसलिलां शुभाम् । मारुतेनैव चोद्धूतैर्मुक्ताबिन्दुभिराचिताम् ॥
मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः । दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत ॥
तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः । आसन्नानाविधा नीलाः शीतच्छाया मनोरमाः ॥
काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः । हंसकारण्डवयुताश्चक्रवाकोपशोभिताः ॥
जलजानां च माल्यानां स्थलजानां च सर्वशः । मारुतो गन्धमादाय पाण्डवान्स्म निषेवते ॥
ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः । निष्ठितां धर्मराजाय मयो राज्ञे न्यवेदयत् ॥
← Previous (Ch. 227) Full Table of Contents Next (Ch. 229) →