Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 26

Sabhāparva Adhyāya 26

सभापर्व • अध्यायः 26

Sabhāparva Adhyāya 26 of the classical Mahābhārata with 17 verses.

Total: 17 Verses • Citations: MBh 2.26.1–17 • 250 Lexicon Terms
एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान् । धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति ॥
महता बलचक्रेण परराष्ट्रावमर्दिना । वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः ॥
स गत्वा राजशार्दूलः पाञ्चालानां पुरं महत् । पाञ्चालान्विविधोपायैः सान्त्वयामास पाण्डवः ॥
ततः स गण्डकीं शूरो विदेहांश्च नरर्षभः । विजित्याल्पेन कालेन दशार्णानगमत्प्रभुः ॥
तत्र दाशार्णको राजा सुधर्मा लोमहर्षणम् । कृतवान्कर्म भीमेन महद्युद्धं निरायुधम् ॥
भीमसेनस्तु तद्दृष्ट्वा तस्य कर्म परंतपः । अधिसेनापतिं चक्रे सुधर्माणं महाबलम् ॥
ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः । सैन्येन महता राजन्कम्पयन्निव मेदिनीम् ॥
सोऽश्वमेधेश्वरं राजन्रोचमानं सहानुजम् । जिगाय समरे वीरो बलेन बलिनां वरः ॥
स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा । पूर्वदेशं महावीर्यो विजिग्ये कुरुनन्दनः ॥
ततो दक्षिणमागम्य पुलिन्दनगरं महत् । सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् ॥
ततस्तु धर्मराजस्य शासनाद्भरतर्षभः । शिशुपालं महावीर्यमभ्ययाज्जनमेजय ॥
चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम् । उपनिष्क्रम्य नगरात्प्रत्यगृह्णात्परंतपः ॥
तौ समेत्य महाराज कुरुचेदिवृषौ तदा । उभयोरात्मकुलयोः कौशल्यं पर्यपृच्छताम् ॥
ततो निवेद्य तद्राष्ट्रं चेदिराजो विशां पते । उवाच भीमं प्रहसन्किमिदं कुरुषेऽनघ ॥
तस्य भीमस्तदाचख्यौ धर्मराजचिकीर्षितम् । स च तत्प्रतिगृह्यैव तथा चक्रे नराधिपः ॥
ततो भीमस्तत्र राजन्नुषित्वा त्रिदशाः क्षपाः । सत्कृतः शिशुपालेन ययौ सबलवाहनः ॥
← Previous (Ch. 250) Full Table of Contents Next (Ch. 252) →