Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 19

Sabhāparva Adhyāya 19

सभापर्व • अध्यायः 19

Sabhāparva Adhyāya 19 of the classical Mahābhārata with 51 verses.

Total: 51 Verses • Citations: MBh 2.19.1–51 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
एष पार्थ महान्स्वादुः पशुमान्नित्यमम्बुमान् । निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः ॥
वैहारो विपुलः शैलो वराहो वृषभस्तथा । तथैवर्षिगिरिस्तात शुभाश्चैत्यकपञ्चमाः ॥
एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः । रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम् ॥
पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोरमैः । निगूढा इव लोध्राणां वनैः कामिजनप्रियैः ॥
शूद्रायां गौतमो यत्र महात्मा संशितव्रतः । औशीनर्यामजनयत्काक्षीवादीन्सुतानृषिः ॥
गौतमः क्षयणादस्मादथासौ तत्र वेश्मनि । भजते मागधं वंशं स नृपाणामनुग्रहात् ॥
अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः । गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन ॥
वनराजीस्तु पश्येमाः प्रियालानां मनोरमाः । लोध्राणां च शुभाः पार्थ गौतमौकःसमीपजाः ॥
अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ । स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः ॥
अपरिहार्या मेघानां मागधेयं मणेः कृते । कौशिको मणिमांश्चैव ववृधाते ह्यनुग्रहम् ॥
अर्थसिद्धिं त्वनपगां जरासंधोऽभिमन्यते । वयमासादने तस्य दर्पमद्य निहन्म हि ॥
एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः । वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं पुरम् ॥
तुष्टपुष्टजनोपेतं चातुर्वर्ण्यजनाकुलम् । स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजम् ॥
तेऽथ द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम् । बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः ॥
यत्र माषादमृषभमाससाद बृहद्रथः । तं हत्वा माषनालाश्च तिस्रो भेरीरकारयत् ॥
आनह्य चर्मणा तेन स्थापयामास स्वे पुरे । यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः ॥
मागधानां सुरुचिरं चैत्यकान्तं समाद्रवन् । शिरसीव जिघांसन्तो जरासंधजिघांसवः ॥
स्थिरं सुविपुलं शृङ्गं सुमहान्तं पुरातनम् । अर्चितं माल्यदामैश्च सततं सुप्रतिष्ठितम् ॥
विपुलैर्बाहुभिर्वीरास्तेऽभिहत्याभ्यपातयन् । ततस्ते मागधं दृष्ट्वा पुरं प्रविविशुस्तदा ॥
एतस्मिन्नेव काले तु जरासंधं समर्चयन् । पर्यग्नि कुर्वंश्च नृपं द्विरदस्थं पुरोहिताः ॥
स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः । युयुत्सवः प्रविविशुर्जरासंधेन भारत ॥
भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम् । स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम् ॥
तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः । राजमार्गेण गच्छन्तः कृष्णभीमधनंजयाः ॥
बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः । विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः ॥
निवेशनमथाजग्मुर्जरासंधस्य धीमतः । गोवासमिव वीक्षन्तः सिंहा हैमवता यथा ॥
शैलस्तम्भनिभास्तेषां चन्दनागुरुभूषिताः । अशोभन्त महाराज बाहवो बाहुशालिनाम् ॥
तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्धानिवोद्गतान् । व्यूढोरस्कान्मागधानां विस्मयः समजायत ॥
ते त्वतीत्य जनाकीर्णास्तिस्रः कक्ष्या नरर्षभाः । अहंकारेण राजानमुपतस्थुर्महाबलाः ॥
तान्पाद्यमधुपर्कार्हान्मानार्हान्सत्कृतिं गतान् । प्रत्युत्थाय जरासंध उपतस्थे यथाविधि ॥
← Previous (Ch. 243) Full Table of Contents Next (Ch. 245) →