Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 1

Sabhāparva Adhyāya 1

सभापर्व • अध्यायः 1

Sabhāparva Adhyāya 1 of the classical Mahābhārata with 20 verses.

Total: 20 Verses • Citations: MBh 2.1.1–20 • 250 Lexicon Terms
ततोऽब्रवीन्मयः पार्थं वासुदेवस्य संनिधौ । प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः ॥
अस्माच्च कृष्णात्संक्रुद्धात्पावकाच्च दिधक्षतः । त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते ॥
कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुर । प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते ॥
युक्तमेतत्त्वयि विभो यथात्थ पुरुषर्षभ । प्रीतिपूर्वमहं किंचित्कर्तुमिच्छामि भारत ॥
अहं हि विश्वकर्मा वै दानवानां महाकविः । सोऽहं वै त्वत्कृते किंचित्कर्तुमिच्छामि पाण्डव ॥
प्राणकृच्छ्राद्विमुक्तं त्वमात्मानं मन्यसे मया । एवं गते न शक्ष्यामि किंचित्कारयितुं त्वया ॥
न चापि तव संकल्पं मोघमिच्छामि दानव । कृष्णस्य क्रियतां किंचित्तथा प्रतिकृतं मयि ॥
चोदितो वासुदेवस्तु मयेन भरतर्षभ । मुहूर्तमिव संदध्यौ किमयं चोद्यतामिति ॥
चोदयामास तं कृष्णः सभा वै क्रियतामिति । धर्मराजस्य दैतेय यादृशीमिह मन्यसे ॥
यां कृतां नानुकुर्युस्ते मानवाः प्रेक्ष्य विस्मिताः । मनुष्यलोके कृत्स्नेऽस्मिंस्तादृशीं कुरु वै सभाम् ॥
यत्र दिव्यानभिप्रायान्पश्येम विहितांस्त्वया । आसुरान्मानुषांश्चैव तां सभां कुरु वै मय ॥
प्रतिगृह्य तु तद्वाक्यं संप्रहृष्टो मयस्तदा । विमानप्रतिमां चक्रे पाण्डवस्य सभां मुदा ॥
ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे । सर्वमेतद्यथावेद्य दर्शयामासतुर्मयम् ॥
तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा । स तु तां प्रतिजग्राह मयः सत्कृत्य सत्कृतः ॥
स पूर्वदेवचरितं तत्र तत्र विशां पते । कथयामास दैतेयः पाण्डुपुत्रेषु भारत ॥
स कालं कंचिदाश्वस्य विश्वकर्मा प्रचिन्त्य च । सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम् ॥
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः । पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः ॥
तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः । धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान् ॥
सर्वर्तुगुणसंपन्नां दिव्यरूपां मनोरमाम् । दशकिष्कुसहस्रां तां मापयामास सर्वतः ॥
← Previous (Ch. 225) Full Table of Contents Next (Ch. 227) →