Skip to main content
Search
MBh
Mahābhārata • Parva 18 (Svargārohaṇaparva) • Adhyāya 5

Svargārohaṇaparva Adhyāya 5

स्वर्गारोहणपर्व • अध्यायः 5

Svargārohaṇaparva Adhyāya 5 of the classical Mahābhārata with 54 verses.

Total: 54 Verses • Citations: MBh 18.5.1–54 • 250 Lexicon Terms • Page 2 of 2 (Verses 24 shown)
एतत्ते सर्वमाख्यातं वैशंपायनकीर्तितम् । व्यासाज्ञया समाख्यातं सर्पसत्रे नृपस्य ह ॥
पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम् । कृष्णेन मुनिना विप्र नियतं सत्यवादिना ॥
सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता । अतीन्द्रियेण शुचिना तपसा भावितात्मना ॥
ऐश्वर्ये वर्तता चैव सांख्ययोगविदा तथा । नैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा ॥
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् । अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥
य इदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि । धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति ॥
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः । अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते ॥
अह्ना यदेनः कुरुते इन्द्रियैर्मनसापि वा । महाभारतमाख्याय पश्चात्संध्यां प्रमुच्यते ॥
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥
जयो नामेतिहासोऽयं श्रोतव्यो भूतिमिच्छता । राज्ञा राजसुतैश्चापि गर्भिण्या चैव योषिता ॥
स्वर्गकामो लभेत्स्वर्गं जयकामो लभेज्जयम् । गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् ॥
अनागतं त्रिभिर्वर्षैः कृष्णद्वैपायनः प्रभुः । संदर्भं भारतस्यास्य कृतवान्धर्मकाम्यया ॥
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् । रक्षो यक्षाञ्शुको मर्त्यान्वैशंपायन एव तु ॥
इतिहासमिमं पुण्यं महार्थं वेदसंमितम् । श्रावयेद्यस्तु वर्णांस्त्रीन्कृत्वा ब्राह्मणमग्रतः ॥
स नरः पापनिर्मुक्तः कीर्तिं प्राप्येह शौनक । गच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः ॥
भारताध्ययनात्पुण्यादपि पादमधीयतः । श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥
महर्षिर्भगवान्व्यासः कृत्वेमां संहितां पुरा । श्लोकैश्चतुर्भिर्भगवान्पुत्रमध्यापयच्छुकम् ॥
मातापितृसहस्राणि पुत्रदारशतानि च । संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥
हर्षस्थानसहस्राणि भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे । धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥
न जातु कामान्न भयान्न लोभा;द्धर्मं त्यजेज्जीवितस्यापि हेतोः । नित्यो धर्मः सुखदुःखे त्वनित्ये; जीवो नित्यो हेतुरस्य त्वनित्यः ॥
इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् । स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः । ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥
महाभारतमाख्यानं यः पठेत्सुसमाहितः । स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः ॥
← Previous (Ch. 1994) Full Table of Contents