Skip to main content
Search
MBh
Mahābhārata • Parva 18 (Svargārohaṇaparva) • Adhyāya 5

Svargārohaṇaparva Adhyāya 5

स्वर्गारोहणपर्व • अध्यायः 5

Svargārohaṇaparva Adhyāya 5 of the classical Mahābhārata with 54 verses.

Total: 54 Verses • Citations: MBh 18.5.1–54 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः । विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा ॥
धृष्टकेतुर्जयत्सेनो राजा चैव स सत्यजित् । दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः ॥
कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः । घटोत्कचादयश्चैव ये चान्ये नानुकीर्तिताः ॥
ये चान्ये कीर्तितास्तत्र राजानो दीप्तमूर्तयः । स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे ॥
आहोस्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम । अन्ते वा कर्मणः कां ते गतिं प्राप्ता नरर्षभाः । एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं त्वया द्विज ॥
English Translation
O best of twice-born, did they live in Heaven for ever? What was the end acquired by those best of men when their acts terminated.
इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना । व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे ॥
गन्तव्यं कर्मणामन्ते सर्वेण मनुजाधिप । शृणु गुह्यमिदं राजन्देवानां भरतर्षभ । यदुवाच महातेजा दिव्यचक्षुः प्रतापवान् ॥
मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः । अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम् ॥
वसूनेव महातेजा भीष्मः प्राप महाद्युतिः । अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ ॥
बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम् । कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणम् ॥
सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम् । धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान् ॥
धृतराष्ट्रेण सहिता गान्धारी च यशस्विनी । पत्नीभ्यां सहितः पाण्डुर्महेन्द्रसदनं ययौ ॥
विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः । निशठाक्रूरसाम्बाश्च भानुः कम्पो विडूरथः ॥
भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः । उग्रसेनस्तथा कंसो वसुदेवश्च वीर्यवान् ॥
उत्तरश्च सह भ्रात्रा शङ्खेन नरपुंगवः । विश्वेषां देवतानां ते विविशुर्नरसत्तमाः ॥
वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान् । सोऽभिमन्युर्नृसिंहस्य फल्गुनस्य सुतोऽभवत् ॥
स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित् । विवेश सोमं धर्मात्मा कर्मणोऽन्ते महारथः ॥
आविवेश रविं कर्णः पितरं पुरुषर्षभ । द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम् ॥
धृतराष्ट्रात्मजाः सर्वे यातुधाना बलोत्कटाः । ऋद्धिमन्तो महात्मानः शस्त्रपूता दिवं गताः । धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः ॥
अनन्तो भगवान्देवः प्रविवेश रसातलम् । पितामहनियोगाद्धि यो योगाद्गामधारयत् ॥
षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः । न्यमज्जन्त सरस्वत्यां कालेन जनमेजय । ताश्चाप्यप्सरसो भूत्वा वासुदेवमुपागमन् ॥
हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः । घटोत्कचादयः सर्वे देवान्यक्षांश्च भेजिरे ॥
दुर्योधनसहायाश्च राक्षसाः परिकीर्तिताः । प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान् ॥
भवनं च महेन्द्रस्य कुबेरस्य च धीमतः । वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः ॥
एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते । कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत ॥
एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः । विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ ॥
ततः समापयामासुः कर्म तत्तस्य याजकाः । आस्तीकश्चाभवत्प्रीतः परिमोक्ष्य भुजंगमान् ॥
ततो द्विजातीन्सर्वांस्तान्दक्षिणाभिरतोषयत् । पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम् ॥
विसर्जयित्वा विप्रांस्तान्राजापि जनमेजयः । ततस्तक्षशिलायाः स पुनरायाद्गजाह्वयम् ॥
← Previous (Ch. 1994) Full Table of Contents