Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 187

Ādiparva Adhyāya 187

आदिपर्व • अध्यायः 187

Ādiparva Adhyāya 187 of the classical Mahābhārata with 33 verses.

Total: 33 Verses • Citations: MBh 1.187.1–33 • 250 Lexicon Terms
तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् । परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः ॥
पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम् । कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत ॥
वैश्यान्वा गुणसंपन्नानुत वा शूद्रयोनिजान् । मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम् ॥
कृष्णाहेतोरनुप्राप्तान्दिवः संदर्शनार्थिनः । ब्रवीतु नो भवान्सत्यं संदेहो ह्यत्र नो महान् ॥
अपि नः संशयस्यान्ते मनस्तुष्टिरिहाविशेत् । अपि नो भागधेयानि शुभानि स्युः परंतप ॥
कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते । इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु ॥
श्रुत्वा ह्यमरसंकाश तव वाक्यमरिंदम । ध्रुवं विवाहकरणमास्थास्यामि विधानतः ॥
मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते । ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम् ॥
वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः । ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ । याभ्यां तव सुता राजन्निर्जिता राजसंसदि ॥
यमौ तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता । व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ । पद्मिनीव सुतेयं ते ह्रदादन्यं ह्रदं गता ॥
इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते । भवान्हि गुरुरस्माकं परमं च परायणम् ॥
ततः स द्रुपदो राजा हर्षव्याकुललोचनः । प्रतिवक्तुं तदा युक्तं नाशकत्तं युधिष्ठिरम् ॥
यत्नेन तु स तं हर्षं संनिगृह्य परंतपः । अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम् ॥
पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा । स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः ॥
तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् । विगर्हयामास तदा धृतराष्ट्रं जनेश्वरम् ॥
आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम् । प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः ॥
ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि । यमौ च राज्ञा संदिष्टौ विविशुर्भवनं महत् ॥
तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः । प्रत्याश्वस्तांस्ततो राजा सह पुत्रैरुवाच तान् ॥
गृह्णातु विधिवत्पाणिमद्यैव कुरुनन्दनः । पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम् ॥
ततस्तमब्रवीद्राजा धर्मपुत्रो युधिष्ठिरः । ममापि दारसंबन्धः कार्यस्तावद्विशां पते ॥
भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम । यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश ॥
सर्वेषां द्रौपदी राजन्महिषी नो भविष्यति । एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते ॥
अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः । पार्थेन विजिता चैषा रत्नभूता च ते सुता ॥
एष नः समयो राजन्रत्नस्य सहभोजनम् । न च तं हातुमिच्छामः समयं राजसत्तम ॥
सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति । आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करम् ॥
एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन । नैकस्या बहवः पुंसो विधीयन्ते कदाचन ॥
लोकवेदविरुद्धं त्वं नाधर्मं धार्मिकः शुचिः । कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी ॥
सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् । पूर्वेषामानुपूर्व्येण यातं वर्त्मानुयामहे ॥
न मे वागनृतं प्राह नाधर्मे धीयते मतिः । एवं चैव वदत्यम्बा मम चैव मनोगतम् ॥
एष धर्मो ध्रुवो राजंश्चरैनमविचारयन् । मा च तेऽत्र विशङ्का भूत्कथंचिदपि पार्थिव ॥
त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश्च मे सुतः । कथयन्त्वितिकर्तव्यं श्वः काले करवामहे ॥
ते समेत्य ततः सर्वे कथयन्ति स्म भारत । अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया ॥
← Previous (Ch. 186) Full Table of Contents Next (Ch. 188) →