Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 181

Ādiparva Adhyāya 181

आदिपर्व • अध्यायः 181

Ādiparva Adhyāya 181 of the classical Mahābhārata with 41 verses.

Total: 41 Verses • Citations: MBh 1.181.1–41 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः । ऊचुस्तं भीर्न कर्तव्या वयं योत्स्यामहे परान् ॥
तानेवं वदतो विप्रानर्जुनः प्रहसन्निव । उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः ॥
अहमेनानजिह्माग्रैः शतशो विकिरञ्शरैः । वारयिष्यामि संक्रुद्धान्मन्त्रैराशीविषानिव ॥
इति तद्धनुरादाय शुल्कावाप्तं महारथः । भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः ॥
ततः कर्णमुखान्क्रुद्धान्क्षत्रियांस्तान्रुषोत्थितान् । संपेततुरभीतौ तौ गजौ प्रतिगजानिव ॥
ऊचुश्च वाचः परुषास्ते राजानो जिघांसवः । आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः ॥
ततो वैकर्तनः कर्णो जगामार्जुनमोजसा । युद्धार्थी वाशिताहेतोर्गजः प्रतिगजं यथा ॥
भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली । दुर्योधनादयस्त्वन्ये ब्राह्मणैः सह संगताः । मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाहवे ॥
ततोऽर्जुनः प्रत्यविध्यदापतन्तं त्रिभिः शरैः । कर्णं वैकर्तनं धीमान्विकृष्य बलवद्धनुः ॥
तेषां शराणां वेगेन शितानां तिग्मतेजसाम् । विमुह्यमानो राधेयो यत्नात्तमनुधावति ॥
तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ । अयुध्येतां सुसंरब्धावन्योन्यविजयैषिणौ ॥
कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे । इति शूरार्थवचनैराभाषेतां परस्परम् ॥
ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि । ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् ॥
अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा । प्रतिहत्य ननादोच्चैः सैन्यास्तमभिपूजयन् ॥
तुष्यामि ते विप्रमुख्य भुजवीर्यस्य संयुगे । अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च ॥
किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम । अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः ॥
आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः । विप्ररूपं विधायेदं ततो मां प्रतियुध्यसे ॥
न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः । पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः ॥
तमेवंवादिनं तत्र फल्गुनः प्रत्यभाषत । नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् । ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः ॥
ब्राह्मे पौरंदरे चास्त्रे निष्ठितो गुरुशासनात् । स्थितोऽस्म्यद्य रणे जेतुं त्वां वीराविचलो भव ॥
एवमुक्तस्तु राधेयो युद्धात्कर्णो न्यवर्तत । ब्राह्मं तेजस्तदाजय्यं मन्यमानो महारथः ॥
युद्धं तूपेयतुस्तत्र राजञ्शल्यवृकोदरौ । बलिनौ युगपन्मत्तौ स्पर्धया च बलेन च ॥
अन्योन्यमाह्वयन्तौ तौ मत्ताविव महागजौ । मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् । मुहूर्तं तौ तथान्योन्यं समरे पर्यकर्षताम् ॥
ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे । न्यवधीद्बलिनां श्रेष्ठो जहसुर्ब्राह्मणास्ततः ॥
तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः । यच्छल्यं पतितं भूमौ नाहनद्बलिनं बली ॥
पातिते भीमसेनेन शल्ये कर्णे च शङ्किते । शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम् ॥
ऊचुश्च सहितास्तत्र साध्विमे ब्राह्मणर्षभाः । विज्ञायन्तां क्वजन्मानः क्वनिवासास्तथैव च ॥
को हि राधासुतं कर्णं शक्तो योधयितुं रणे । अन्यत्र रामाद्द्रोणाद्वा कृपाद्वापि शरद्वतः ॥
कृष्णाद्वा देवकीपुत्रात्फल्गुनाद्वा परंतपात् । को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे ॥
← Previous (Ch. 180) Full Table of Contents Next (Ch. 182) →