Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 181

Ādiparva Adhyāya 181

आदिपर्व • अध्यायः 181

Ādiparva Adhyāya 181 of the classical Mahābhārata with 41 verses.

Total: 41 Verses • Citations: MBh 1.181.1–41 • 250 Lexicon Terms • Page 2 of 2 (Verses 11 shown)
तथैव मद्रराजानं शल्यं बलवतां वरम् । बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात् ॥
क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंयुतात् । अथैनानुपलभ्येह पुनर्योत्स्यामहे वयम् ॥
तत्कर्म भीमस्य समीक्ष्य कृष्णः; कुन्तीसुतौ तौ परिशङ्कमानः । निवारयामास महीपतींस्ता;न्धर्मेण लब्धेत्यनुनीय सर्वान् ॥
त एवं संनिवृत्तास्तु युद्धाद्युद्धविशारदाः । यथावासं ययुः सर्वे विस्मिता राजसत्तमाः ॥
वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता । इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः ॥
ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः । कृच्छ्रेण जग्मतुस्तत्र भीमसेनधनंजयौ ॥
विमुक्तौ जनसंबाधाच्छत्रुभिः परिविक्षतौ । कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः ॥
तेषां माता बहुविधं विनाशं पर्यचिन्तयत् । अनागच्छत्सु पुत्रेषु भैक्षकालेऽतिगच्छति ॥
धार्तराष्ट्रैर्हता न स्युर्विज्ञाय कुरुपुंगवाः । मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः ॥
विपरीतं मतं जातं व्यासस्यापि महात्मनः । इत्येवं चिन्तयामास सुतस्नेहान्विता पृथा ॥
महत्यथापराह्णे तु घनैः सूर्य इवावृतः । ब्राह्मणैः प्राविशत्तत्र जिष्णुर्ब्रह्मपुरस्कृतः ॥
← Previous (Ch. 180) Full Table of Contents Next (Ch. 182) →