Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 180

Ādiparva Adhyāya 180

आदिपर्व • अध्यायः 180

Ādiparva Adhyāya 180 of the classical Mahābhārata with 23 verses.

Total: 23 Verses • Citations: MBh 1.180.1–23 • 250 Lexicon Terms
तस्मै दित्सति कन्यां तु ब्राह्मणाय महात्मने । कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात् ॥
अस्मानयमतिक्रम्य तृणीकृत्य च संगतान् । दातुमिच्छति विप्राय द्रौपदीं योषितां वराम् ॥
निहन्मैनं दुरात्मानं योऽयमस्मान्न मन्यते । न ह्यर्हत्येष सत्कारं नापि वृद्धक्रमं गुणैः ॥
हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम् । अयं हि सर्वानाहूय सत्कृत्य च नराधिपान् । गुणवद्भोजयित्वा च ततः पश्चाद्विनिन्दति ॥
अस्मिन्राजसमावाये देवानामिव संनये । किमयं सदृशं कंचिन्नृपतिं नैव दृष्टवान् ॥
न च विप्रेष्वधीकारो विद्यते वरणं प्रति । स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः ॥
अथ वा यदि कन्येयं नेह कंचिद्बुभूषति । अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः ॥
ब्राह्मणो यदि वा बाल्याल्लोभाद्वा कृतवानिदम् । विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथंचन ॥
ब्राह्मणार्थं हि नो राज्यं जीवितं च वसूनि च । पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम् ॥
अवमानभयादेतत्स्वधर्मस्य च रक्षणात् । स्वयंवराणां चान्येषां मा भूदेवंविधा गतिः ॥
इत्युक्त्वा राजशार्दूला हृष्टाः परिघबाहवः । द्रुपदं संजिघृक्षन्तः सायुधाः समुपाद्रवन् ॥
तान्गृहीतशरावापान्क्रुद्धानापततो नृपान् । द्रुपदो वीक्ष्य संत्रासाद्ब्राह्मणाञ्शरणं गतः ॥
वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान् । पाण्डुपुत्रौ महावीर्यौ प्रतीयतुररिंदमौ ॥
ततः समुत्पेतुरुदायुधास्ते; महीक्षितो बद्धतलाङ्गुलित्राः । जिघांसमानाः कुरुराजपुत्रा;वमर्षयन्तोऽर्जुनभीमसेनौ ॥
ततस्तु भीमोऽद्भुतवीर्यकर्मा; महाबलो वज्रसमानवीर्यः । उत्पाट्य दोर्भ्यां द्रुममेकवीरो; निष्पत्रयामास यथा गजेन्द्रः ॥
तं वृक्षमादाय रिपुप्रमाथी; दण्डीव दण्डं पितृराज उग्रम् । तस्थौ समीपे पुरुषर्षभस्य; पार्थस्य पार्थः पृथुदीर्घबाहुः ॥
तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धे;र्जिष्णोः सहभ्रातुरचिन्त्यकर्मा । दामोदरो भ्रातरमुग्रवीर्यं; हलायुधं वाक्यमिदं बभाषे ॥
य एष मत्तर्षभतुल्यगामी; महद्धनुः कर्षति तालमात्रम् । एषोऽर्जुनो नात्र विचार्यमस्ति; यद्यस्मि संकर्षण वासुदेवः ॥
य एष वृक्षं तरसावरुज्य; राज्ञां विकारे सहसा निवृत्तः । वृकोदरो नान्य इहैतदद्य; कर्तुं समर्थो भुवि मर्त्यधर्मा ॥
योऽसौ पुरस्तात्कमलायताक्ष;स्तनुर्महासिंहगतिर्विनीतः । गौरः प्रलम्बोज्ज्वलचारुघोणो; विनिःसृतः सोऽच्युत धर्मराजः ॥
यौ तौ कुमाराविव कार्त्तिकेयौ; द्वावश्विनेयाविति मे प्रतर्कः । मुक्ता हि तस्माज्जतुवेश्मदाहा;न्मया श्रुताः पाण्डुसुताः पृथा च ॥
तमब्रवीन्निर्मलतोयदाभो; हलायुधोऽनन्तरजं प्रतीतः । प्रीतोऽस्मि दिष्ट्या हि पितृष्वसा नः; पृथा विमुक्ता सह कौरवाग्र्यैः ॥
← Previous (Ch. 179) Full Table of Contents Next (Ch. 181) →