Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 130

Ādiparva Adhyāya 130

आदिपर्व • अध्यायः 130

Ādiparva Adhyāya 130 of the classical Mahābhārata with 21 verses.

Total: 21 Verses • Citations: MBh 1.130.1–21 • 250 Lexicon Terms
धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम् । मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत् ॥
धर्मनित्यः सदा पाण्डुर्ममासीत्प्रियकृद्धितः । सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः ॥
नास्य किंचिन्न जानामि भोजनादि चिकीर्षितम् । निवेदयति नित्यं हि मम राज्यं धृतव्रतः ॥
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः । गुणवाँल्लोकविख्यातः पौराणां च सुसंमतः ॥
स कथं शक्यमस्माभिरपक्रष्टुं बलादितः । पितृपैतामहाद्राज्यात्ससहायो विशेषतः ॥
भृता हि पाण्डुनामात्या बलं च सततं भृतम् । भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः ॥
ते पुरा सत्कृतास्तात पाण्डुना पौरवा जनाः । कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् ॥
एवमेतन्मया तात भावितं दोषमात्मनि । दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन योजिताः ॥
ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः । अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते ॥
स भवान्पाण्डवानाशु विवासयितुमर्हति । मृदुनैवाभ्युपायेन नगरं वारणावतम् ॥
यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति । तदा कुन्ती सहापत्या पुनरेष्यति भारत ॥
दुर्योधन ममाप्येतद्धृदि संपरिवर्तते । अभिप्रायस्य पापत्वान्नैतत्तु विवृणोम्यहम् ॥
न च भीष्मो न च द्रोणो न क्षत्ता न च गौतमः । विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित् ॥
समा हि कौरवेयाणां वयमेते च पुत्रक । नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः ॥
ते वयं कौरवेयाणामेतेषां च महात्मनाम् । कथं न वध्यतां तात गच्छेम जगतस्तथा ॥
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः । यतः पुत्रस्ततो द्रोणो भविता नात्र सांशयः ॥
कृपः शारद्वतश्चैव यत एते त्रयस्ततः । द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित् ॥
क्षत्तार्थबद्धस्त्वस्माकं प्रच्छन्नं तु यतः परे । न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम् ॥
स विश्रब्धः पाण्डुपुत्रान्सह मात्रा विवासय । वारणावतमद्यैव नात्र दोषो भविष्यति ॥
विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम् । शोकपावकमुद्भूतं कर्मणैतेन नाशय ॥
← Previous (Ch. 129) Full Table of Contents Next (Ch. 131) →