Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 128

Ādiparva Adhyāya 128

आदिपर्व • अध्यायः 128

Ādiparva Adhyāya 128 of the classical Mahābhārata with 19 verses.

Total: 19 Verses • Citations: MBh 1.128.1–19 • 250 Lexicon Terms
ततः शिष्यान्समानीय आचार्यार्थमचोदयत् । द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते ॥
पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि । पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा ॥
तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः । आचार्यधनदानार्थं द्रोणेन सहिता ययुः ॥
ततोऽभिजग्मुः पाञ्चालान्निघ्नन्तस्ते नरर्षभाः । ममृदुस्तस्य नगरं द्रुपदस्य महौजसः ॥
ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि । उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभाः ॥
भग्नदर्पं हृतधनं तथा च वशमागतम् । स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् ॥
प्रमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया । प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते ॥
एवमुक्त्वा प्रहस्यैनं निश्चित्य पुनरब्रवीत् । मा भैः प्राणभयाद्राजन्क्षमिणो ब्राह्मणा वयम् ॥
आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह । तेन संवर्धितः स्नेहस्त्वया मे क्षत्रियर्षभ ॥
प्रार्थयेयं त्वया सख्यं पुनरेव नरर्षभ । वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि ॥
अराजा किल नो राज्ञां सखा भवितुमर्हति । अतः प्रयतितं राज्ये यज्ञसेन मया तव ॥
English Translation
Drona said: O king, I again solicit your friendship. He who is not a king should not be a friend of a king. Therefore, O Yajnasena, I shall divide this kingdom amongst ourselves. You will be the king of the country lying on the south banks of the Bhagirathi and I shall be that on the north banks.
राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे । सखायं मां विजानीहि पाञ्चाल यदि मन्यसे ॥
अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु । प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् ॥
एवमुक्तस्तु तं द्रोणो मोक्षयामास भारत । सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् ॥
माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् । सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् । दक्षिणांश्चैव पाञ्चालान्यावच्चर्मण्वती नदी ॥
द्रोणेन वैरं द्रुपदः संस्मरन्न शशाम ह । क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् ॥
हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च । पुत्रजन्म परीप्सन्वै स राजा तदधारयत् । अहिच्छत्रं च विषयं द्रोणः समभिपद्यत ॥
एवं राजन्नहिच्छत्रा पुरी जनपदायुता । युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता ॥
← Previous (Ch. 127) Full Table of Contents Next (Ch. 129) →