Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 127

Ādiparva Adhyāya 127

आदिपर्व • अध्यायः 127

Ādiparva Adhyāya 127 of the classical Mahābhārata with 25 verses.

Total: 25 Verses • Citations: MBh 1.127.1–25 • 250 Lexicon Terms
ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः । विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव ॥
तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः । कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत ॥
ततः पादाववच्छाद्य पटान्तेन ससंभ्रमः । पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः ॥
परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः । अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः ॥
तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः । भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव ॥
न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् । कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया ॥
अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम । श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे ॥
एवमुक्तस्ततः कर्णः किंचित्प्रस्फुरिताधरः । गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत ॥
ततो दुर्योधनः कोपादुत्पपात महाबलः । भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः ॥
सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् । वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् ॥
क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना । शूराणां च नदीनां च प्रभवा दुर्विदाः किल ॥
सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् । दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् ॥
आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि । श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः ॥
क्षत्रियाभ्यश्च ये जाता ब्राह्मणास्ते च विश्रुताः । आचार्यः कलशाज्जातः शरस्तम्बाद्गुरुः कृपः । भवतां च यथा जन्म तदप्यागमितं नृपैः ॥
सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् । कथमादित्यसंकाशं मृगी व्याघ्रं जनिष्यति ॥
पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः । अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना ॥
यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् । रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम् ॥
ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत् । साधुवादानुसंबद्धः सूर्यश्चास्तमुपागमत् ॥
ततो दुर्योधनः कर्णमालम्ब्याथ करे नृप । दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ ॥
पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते । भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् ॥
अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत । कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा ॥
कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् । पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत ॥
दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव । भयमर्जुनसांजातं क्षिप्रमन्तरधीयत ॥
स चापि वीरः कृतशस्त्रनिश्रमः; परेण साम्नाभ्यवदत्सुयोधनम् । युधिष्ठिरस्याप्यभवत्तदा मति;र्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ ॥
← Previous (Ch. 126) Full Table of Contents Next (Ch. 128) →