Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 126

Ādiparva Adhyāya 126

आदिपर्व • अध्यायः 126

Ādiparva Adhyāya 126 of the classical Mahābhārata with 40 verses.

Total: 40 Verses • Citations: MBh 1.126.1–40 • 250 Lexicon Terms
दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनैः । विवेश रङ्गं विस्तीर्णं कर्णः परपुरंजयः ॥
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः । सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः ॥
कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः । तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः ॥
सिंहर्षभगजेन्द्राणां तुल्यवीर्यपराक्रमः । दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः ॥
प्रांशुः कनकतालाभः सिंहसंहननो युवा । असंख्येयगुणः श्रीमान्भास्करस्यात्मसंभवः ॥
स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम् । प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत् ॥
स सामाजजनः सर्वो निश्चलः स्थिरलोचनः । कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत् ॥
सोऽब्रवीन्मेघधीरेण स्वरेण वदतां वरः । भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् ॥
पार्थ यत्ते कृतं कर्म विशेषवदहं ततः । करिष्ये पश्यतां नॄणां मात्मना विस्मयं गमः ॥
असमाप्ते ततस्तस्य वचने वदतां वर । यन्त्रोत्क्षिप्त इव क्षिप्रमुत्तस्थौ सर्वतो जनः ॥
प्रीतिश्च पुरुषव्याघ्र दुर्योधनमथास्पृशत् । ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वविशच्च ह ॥
ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा । यत्कृतं तत्र पार्थेन तच्चकार महाबलः ॥
अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत । कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत् ॥
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद । अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम् ॥
कृतं सर्वेण मेऽन्येन सखित्वं च त्वया वृणे । द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छामि भारत ॥
भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव । दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिंदम ॥
ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत । कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् ॥
अनाहूतोपसृप्तानामनाहूतोपजल्पिनाम् । ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे ॥
रङ्गोऽयं सर्वसामान्यः किमत्र तव फल्गुन । वीर्यश्रेष्ठाश्च राजन्या बलं धर्मोऽनुवर्तते ॥
किं क्षेपैर्दुर्बलाश्वासैः शरैः कथय भारत । गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः ॥
ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरंजयः । भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् ॥
ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः । परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः ॥
ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोजवैः । आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः ॥
ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् । भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान् ॥
मेघच्छायोपगूढस्तु ततोऽदृश्यत पाण्डवः । सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत ॥
धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः । भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् ॥
द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत । कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह ॥
तां तथा मोहसंपन्नां विदुरः सर्वधर्मवित् । कुन्तीमाश्वासयामास प्रोक्ष्याद्भिश्चन्दनोक्षितैः ॥
ततः प्रत्यागतप्राणा तावुभावपि दंशितौ । पुत्रौ दृष्ट्वा सुसंतप्ता नान्वपद्यत किंचन ॥
तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत् । द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित् ॥
अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः । कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति ॥
त्वमप्येवं महाबाहो मातरं पितरं कुलम् । कथयस्व नरेन्द्राणां येषां त्वं कुलवर्धनः । ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा ॥
एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् । बभौ वर्षाम्बुभिः क्लिन्नं पद्ममागलितं यथा ॥
आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये । तत्कुलीनश्च शूरश्च सेनां यश्च प्रकर्षति ॥
यद्ययं फल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति । तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते ॥
ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः । काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः । अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबलः ॥
सच्छत्रवालव्यजनो जयशब्दान्तरेण च । उवाच कौरवं राजा राजानं तं वृषस्तदा ॥
अस्य राज्यप्रदानस्य सदृशं किं ददानि ते । प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप । अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः ॥
एवमुक्तस्ततः कर्णस्तथेति प्रत्यभाषत । हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः ॥
← Previous (Ch. 125) Full Table of Contents Next (Ch. 127) →