Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 164

Ādiparva Adhyāya 164

आदिपर्व • अध्यायः 164

Ādiparva Adhyāya 164 of the classical Mahābhārata with 15 verses.

Total: 15 Verses • Citations: MBh 1.164.1–15 • 250 Lexicon Terms
स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ । अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभौ ॥
उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः । जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात् ॥
वसिष्ठ इति यस्यैतदृषेर्नाम त्वयेरितम् । एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे ॥
य एष गन्धर्वपते पूर्वेषां नः पुरोहितः । आसीदेतन्ममाचक्ष्व क एष भगवानृषिः ॥
तपसा निर्जितौ शश्वदजेयावमरैरपि । कामक्रोधावुभौ यस्य चरणौ संववाहतुः ॥
यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः । विश्वामित्रापराधेन धारयन्मन्युमुत्तमम् ॥
पुत्रव्यसनसंतप्तः शक्तिमानपि यः प्रभुः । विश्वामित्रविनाशाय न मेने कर्म दारुणम् ॥
मृतांश्च पुनराहर्तुं यः स पुत्रान्यमक्षयात् । कृतान्तं नातिचक्राम वेलामिव महोदधिः ॥
यं प्राप्य विजितात्मानं महात्मानं नराधिपाः । इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम् ॥
पुरोहितवरं प्राप्य वसिष्ठमृषिसत्तमम् । ईजिरे क्रतुभिश्चापि नृपास्ते कुरुनन्दन ॥
स हि तान्याजयामास सर्वान्नृपतिसत्तमान् । ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान् ॥
तस्माद्धर्मप्रधानात्मा वेदधर्मविदीप्सितः । ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रविमृश्यताम् ॥
क्षत्रियेण हि जातेन पृथिवीं जेतुमिच्छता । पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये ॥
महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःसरम् । तस्मात्पुरोहितः कश्चिद्गुणवानस्तु वो द्विजः ॥
← Previous (Ch. 163) Full Table of Contents Next (Ch. 165) →