Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 132

Ādiparva Adhyāya 132

आदिपर्व • अध्यायः 132

Ādiparva Adhyāya 132 of the classical Mahābhārata with 20 verses.

Total: 20 Verses • Citations: MBh 1.132.1–20 • 250 Lexicon Terms
एवमुक्तेषु राज्ञा तु पाण्डवेषु महात्मसु । दुर्योधनः परं हर्षमाजगाम दुरात्मवान् ॥
स पुरोचनमेकान्तमानीय भरतर्षभ । गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत् ॥
ममेयं वसुसंपूर्णा पुरोचन वसुंधरा । यथेयं मम तद्वत्ते स तां रक्षितुमर्हसि ॥
न हि मे कश्चिदन्योऽस्ति वैश्वासिकतरस्त्वया । सहायो येन संधाय मन्त्रयेयं यथा त्वया ॥
संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर । निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु ॥
पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् । उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् ॥
स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना । वारणावतमद्यैव यथा यासि तथा कुरु ॥
तत्र गत्वा चतुःशालं गृहं परमसंवृतम् । आयुधागारमाश्रित्य कारयेथा महाधनम् ॥
शणसर्जरसादीनि यानि द्रव्याणि कानिचित् । आग्नेयान्युत सन्तीह तानि सर्वाणि दापय ॥
सर्पिषा च सतैलेन लाक्षया चाप्यनल्पया । मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः ॥
शणान्वंशं घृतं दारु यन्त्राणि विविधानि च । तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः ॥
यथा च त्वां न शङ्केरन्परीक्षन्तोऽपि पाण्डवाः । आग्नेयमिति तत्कार्यमिति चान्ये च मानवाः ॥
वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् । वासयेः पाण्डवेयांश्च कुन्तीं च ससुहृज्जनाम् ॥
तत्रासनानि मुख्यानि यानानि शयनानि च । विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता ॥
यथा रमेरन्विश्रब्धा नगरे वारणावते । तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः ॥
ज्ञात्वा तु तान्सुविश्वस्ताञ्शयानानकुतोभयान् । अग्निस्ततस्त्वया देयो द्वारतस्तस्य वेश्मनः ॥
दग्धानेवं स्वके गेहे दग्धा इति ततो जनाः । ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हिचित् ॥
तत्तथेति प्रतिज्ञाय कौरवाय पुरोचनः । प्रायाद्रासभयुक्तेन नगरं वारणावतम् ॥
स गत्वा त्वरितो राजन्दुर्योधनमते स्थितः । यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः ॥
← Previous (Ch. 131) Full Table of Contents Next (Ch. 133) →