Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 131

Ādiparva Adhyāya 131

आदिपर्व • अध्यायः 131

Ādiparva Adhyāya 131 of the classical Mahābhārata with 19 verses.

Total: 19 Verses • Citations: MBh 1.131.1–19 • 250 Lexicon Terms
ततो दुर्योधनो राजा सर्वास्ताः प्रकृतीः शनैः । अर्थमानप्रदानाभ्यां संजहार सहानुजः ॥
धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः । कथयां चक्रिरे रम्यं नगरं वारणावतम् ॥
अयं समाजः सुमहान्रमणीयतमो भुवि । उपस्थितः पशुपतेर्नगरे वारणावते ॥
सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे । इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः ॥
कथ्यमाने तथा रम्ये नगरे वारणावते । गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप ॥
यदा त्वमन्यत नृपो जातकौतूहला इति । उवाचैनानथ तदा पाण्डवानम्बिकासुतः ॥
ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः । रमणीयतरं लोके नगरं वारणावतम् ॥
ते तात यदि मन्यध्वमुत्सवं वारणावते । सगणाः सानुयात्राश्च विहरध्वं यथामराः ॥
ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः । प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः ॥
कंचित्कालं विहृत्यैवमनुभूय परां मुदम् । इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ ॥
धृतराष्ट्रस्य तं काममनुबुद्ध्वा युधिष्ठिरः । आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् ॥
ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् । द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् ॥
कृपमाचार्यपुत्रं च गान्धारीं च यशस्विनीम् । युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तदा ॥
रमणीये जनाकीर्णे नगरे वारणावते । सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात् ॥
प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत । आशीर्भिर्वर्धितानस्मान्न पापं प्रसहिष्यति ॥
एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः । प्रसन्नवदना भूत्वा तेऽभ्यवर्तन्त पाण्डवान् ॥
स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः । मा च वोऽस्त्वशुभं किंचित्सर्वतः पाण्डुनन्दनाः ॥
ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः । कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् ॥
← Previous (Ch. 130) Full Table of Contents Next (Ch. 132) →