Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 129

Ādiparva Adhyāya 129

आदिपर्व • अध्यायः 129

Ādiparva Adhyāya 129 of the classical Mahābhārata with 19 verses.

Total: 19 Verses • Citations: MBh 1.129.1–19 • 250 Lexicon Terms
प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम् । दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः ॥
ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः । अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः । उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥
गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा । कथयन्ति स्म संभूय चत्वरेषु सभासु च ॥
प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः । राज्यमप्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् ॥
तथा भीष्मः शांतनवः सत्यसंधो महाव्रतः । प्रत्याख्याय पुरा राज्यं नाद्य जातु ग्रहीष्यति ॥
ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् । अभिषिञ्चाम साध्वद्य सत्यं करुणवेदिनम् ॥
स हि भीष्मं शांतनवं धृतराष्ट्रं च धर्मवित् । सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् ॥
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् । युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः ॥
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे । ईर्ष्यया चाभिसंतप्तो धृतराष्ट्रमुपागमत् ॥
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः । पौरानुरागसंतप्तः पश्चादिदमभाषत ॥
श्रुता मे जल्पतां तात पौराणामशिवा गिरः । त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् ॥
मतमेतच्च भीष्मस्य न स राज्यं बुभूषति । अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः ॥
पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा । त्वमप्यगुणसंयोगात्प्राप्तं राज्यं न लब्धवान् ॥
स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः । तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः ॥
ते वयं राजवंशेन हीनाः सह सुतैरपि । अवज्ञाता भविष्यामो लोकस्य जगतीपते ॥
सततं निरयं प्राप्ताः परपिण्डोपजीविनः । न भवेम यथा राजंस्तथा शीघ्रं विधीयताम् ॥
अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप । ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने ॥
← Previous (Ch. 128) Full Table of Contents Next (Ch. 130) →