Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 108

Ādiparva Adhyāya 108

आदिपर्व • अध्यायः 108

Ādiparva Adhyāya 108 of the classical Mahābhārata with 19 verses.

Total: 19 Verses • Citations: MBh 1.108.1–19 • 250 Lexicon Terms
ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो । धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ॥
दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा । दुःसहो दुःशलश्चैव जलसंधः समः सहः ॥
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः । दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च ॥
विविंशतिर्विकर्णश्च जलसंधः सुलोचनः । चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः ॥
दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः । ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ ॥
सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ । चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः ॥
अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः । भीमवेगो भीमबलो बलाकी बलवर्धनः ॥
उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः । दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ॥
दृढसंधो जरासंधः सत्यसंधः सदःसुवाक् । उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः ॥
अपराजितः पण्डितको विशालाक्षो दुरावरः । दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ॥
आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ । कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः ॥
उग्रो भीमरथो वीरो वीरबाहुरलोलुपः । अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः ॥
अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः । दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः ॥
कुण्डाशी विरजाश्चैव दुःशला च शताधिका । एतदेकशतं राजन्कन्या चैका प्रकीर्तिता ॥
नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप । सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ॥
सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः । सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः ॥
सर्वेषामनुरूपाश्च कृता दारा महीपते । धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा ॥
दुःशलां समये राजा सिन्धुराजाय भारत । जयद्रथाय प्रददौ सौबलानुमते तदा ॥
← Previous (Ch. 107) Full Table of Contents Next (Ch. 109) →