Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 106

Ādiparva Adhyāya 106

आदिपर्व • अध्यायः 106

Ādiparva Adhyāya 106 of the classical Mahābhārata with 15 verses.

Total: 15 Verses • Citations: MBh 1.106.1–15 • 250 Lexicon Terms
धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् । भीष्माय सत्यवत्यै च मात्रे चोपजहार सः ॥
विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् । सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ॥
ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् । शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत ॥
English Translation
The venerable Satyavati, the illustrious princess of Kausalya and Gandhari surrounded by their maids, all came out to the royal gate.
ननन्द माता कौसल्या तमप्रतिमतेजसम् । जयन्तमिव पौलोमी परिष्वज्य नरर्षभम् ॥
तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः । अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ॥
संप्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ । जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः ॥
हित्वा प्रासादनिलयं शुभानि शयनानि च । अरण्यनित्यः सततं बभूव मृगयापरः ॥
स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः । उवास गिरिपृष्ठेषु महाशालवनेषु च ॥
रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् । करेण्वोरिव मध्यस्थः श्रीमान्पौरंदरो गजः ॥
भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम् । विचित्रकवचं वीरं परमास्त्रविदं नृपम् । देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः ॥
तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः । उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः ॥
अथ पारशवीं कन्यां देवकस्य महीपतेः । रूपयौवनसंपन्नां स शुश्रावापगासुतः ॥
ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः । विवाहं कारयामास विदुरस्य महामतेः ॥
तस्यां चोत्पादयामास विदुरः कुरुनन्दनः । पुत्रान्विनयसंपन्नानात्मनः सदृशान्गुणैः ॥
← Previous (Ch. 105) Full Table of Contents Next (Ch. 107) →