Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 102

Ādiparva Adhyāya 102

आदिपर्व • अध्यायः 102

Ādiparva Adhyāya 102 of the classical Mahābhārata with 24 verses.

Total: 24 Verses • Citations: MBh 1.102.1–24 • 250 Lexicon Terms
तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् । कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ॥
ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च । यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः ॥
वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः । गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥
वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः । शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ॥
नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः । प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ॥
दानक्रियाधर्मशीला यज्ञव्रतपरायणाः । अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा ॥
मानक्रोधविहीनाश्च जना लोभविवर्जिताः । अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत ॥
तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत । द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः । प्रासादशतसंबाधं महेन्द्रपुरसंनिभम् ॥
नदीषु वनखण्डेषु वापीपल्वलसानुषु । काननेषु च रम्येषु विजह्रुर्मुदिता जनाः ॥
उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तदा । विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः । नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः ॥
तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः । कूपारामसभावाप्यो ब्राह्मणावसथास्तथा । भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते ॥
बभूव रमणीयश्च चैत्ययूपशताङ्कितः । स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः । भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ॥
क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् । पौरजानपदाः सर्वे बभूवुः सततोत्सवाः ॥
गृहेषु कुरुमुख्यानां पौराणां च नराधिप । दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः ॥
धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः । जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ॥
संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः । श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ॥
धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि । तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः ॥
इतिहासपुराणेषु नानाशिक्षासु चाभिभो । वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः ॥
पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत् । अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः ॥
त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः । धर्मनित्यस्ततो राजन्धर्मे च परमं गतः ॥
प्रनष्टं शंतनोर्वंशं समीक्ष्य पुनरुद्धृतम् । ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ॥
वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् । सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् ॥
धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत । करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः ॥
← Previous (Ch. 101) Full Table of Contents Next (Ch. 103) →