Skip to main content
Search
KA
Kirātārjunīyam • Chapter 04

Canto 4

चतुर्थः सर्गः

Canto 4 of Kirātārjunīyam.

Total: 38 Verses • Citations: KA 4.1–38 • 1 Lexicon Terms
KA 4.1 वंशस्थम्
ततः स कूजत्कलहंसमेखलां सपाकसस्याहितपाण्डुतागुणाम् । उपाससादोपजनं जनप्रियः प्रियामिवासादितयौवनां भुवम् ॥
KA 4.2 वंशस्थम्
विनम्रशालिप्रसवौघशालिनीरपेतपङ्काः ससरोरुहाम्भसः । ननन्द पश्यन्नुपसीम स स्थलीरुपायनीभूतशरद्गुणश्रियः ॥
KA 4.3 वंशस्थम्
निरीक्ष्यमाणा इव विस्मयाकुलैः पयोभिरुन्मीलितपद्मलोचनैः । हृतप्रियादृष्टिविलासविभ्रमा मनोऽस्य जह्रुः शफरीविवृत्तयः ॥
KA 4.4 वंशस्थम्
तुतोष पश्यन्कलमस्य स अधिकं सवारिजे वारिणि रामणीयकम् । सुदुर्लभे नार्हति कोऽभिनन्दितुं प्रकर्षलक्ष्मीमनुरूपसंगमे ॥
KA 4.5 वंशस्थम्
नुनोद तस्य स्थलपद्मिनीगतं वितर्कमाविष्कृतफेनसंतति । अवाप्तकिञ्जल्कविभेदमुच्चकैर्विवृत्तपाठीनपराहतं पयः ॥
KA 4.6 वंशस्थम्
कृतोर्मिरेखं शिथिलत्वमायता शनैः शनैः शान्तरयेण वारिणा । निरीक्ष्य रेमे स समुद्रयोषितां तरङ्गितक्षौमविपाण्डु सैकतम् ॥
KA 4.7 वंशस्थम्
मनोरमं प्रापितमन्तरं भ्रुवोरलंकृतं केसररेणुणाणुना । अलक्तताम्राधरपल्लवश्रिया समानयन्तीमिव बन्धुजीवकम् ॥
KA 4.8 वंशस्थम्
नवातपालोहितमाहितं मुहुर्महानिवेशौ परितः पयोधरौ । चकासयन्तीमरविन्दजं रजः परिश्रमाम्भःपुलकेन सर्पता ॥
KA 4.9 वंशस्थम्
कपोलसंश्लेषि विलोचनत्विषा विभूषयन्तीमवतंसकोत्पलम् । सुतेन पाण्डोः कलमस्य गोपिकां निरीक्ष्य मेने शरदः कृतार्थता ॥
KA 4.10 वंशस्थम्
उपारताः पश्चिमरात्रिगोचरादपारयन्तः पतितुं जवेन गाम् । तमुत्सुकाश्चक्रुरवेक्षणोत्सुकं गवां गणाः प्रस्नुतपीवरौधरसः ॥
KA 4.11 वंशस्थम्
परीतमुक्षावजये जयश्रिया नदन्तमुच्चैः क्षतसिन्धुरोधसम् । ददर्श पुष्टिं दधतं स शारदीं सविग्रहं दर्पमिवाधिपं गवाम् ॥
KA 4.12 वंशस्थम्
विमुच्यमानैरपि तस्य मन्थरं गवां हिमानीविशदैः कदम्बकैः । शरन्नदीनां पुलिनैः कुतूहलं गलद्दुकूलैर्जघनैरिवादधे ॥
KA 4.13 वंशस्थम्
गतान्पशूनां सहजन्मबन्धुतां गृहाश्रयं प्रेम वनेषु बिभ्रतः । ददर्श गोपानुपधेनु पाण्डवः कृतानुकारानिव गोभिरार्जवे ॥
KA 4.14 वंशस्थम्
परिभ्रमन्मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदन्तकेसरैः । मुखैश्चलत्कुण्डलरश्मिरञ्जितैर्नवातपामृष्टसरोजचारुभिः ॥
KA 4.15 वंशस्थम्
निबद्धनिःश्वासविकम्पिताधरा लता इव प्रस्फुरितैकपल्लवाः । व्यपोढपार्श्वैरपवर्तितत्रिका विकर्षणैः पाणिविहारहारिभिः ॥
KA 4.16 वंशस्थम्
व्रजाजिरेष्वम्बुदनादशङ्किनीः शिखण्डिनामुन्मदयत्सु योषितः । मुहुः प्रणुन्नेषु मथां विवर्तनैर्नदत्सु कुम्भेषु मृदङ्गमन्थरम् ॥
KA 4.17 वंशस्थम्
स मन्थरावल्गितपीवरस्तनीः परिश्रमक्लान्तविलोचनोत्पलाः । निरीक्षितुं नोपरराम बल्लवीरभिप्रनृत्ता इव वारयोषितः ॥
KA 4.18 वंशस्थम्
पपात पूर्वां जहतो विजिह्मतां वृषोपभुक्तान्तिकसस्यसम्पदः । रथाङ्गसीमन्तितसान्द्रकर्दमान्प्रसक्तसम्पातपृथक्कृतान्पथः ॥
KA 4.19 वंशस्थम्
जनैरुपग्राममनिन्द्यकर्मभिर्विविक्तभावेङ्गितभूषणैर्वृताः । भृशं ददर्शाश्रममण्डपोपमाः सपुष्पहासाः स निवेशवीरुधः ॥
KA 4.20 वंशस्थम्
ततः स सम्प्रेक्ष्य शरद्गुणश्रियं शरद्गुणालोकनलोलचक्षुषम् । उवाच यक्षस्तमचोदितोऽपि गां न हीङ्गितज्ञोऽवसरेऽवसीदति ॥
KA 4.21 वंशस्थम्
इयं शिवाया नियतेरिवायतिः कृतार्थयन्ती जगतः फलैः क्रियाः । जयश्रियं पार्थ पृथूकरोतु ते शरत्प्रसन्नाम्बुरनम्बुवारिदा ॥
KA 4.22 वंशस्थम्
उपैति सस्यं परिणामरम्यता नदीरनौद्धत्यमपङ्कता महीम् । नवैर्गुणैः सम्प्रति संस्तवस्थिरं तिरोहितं प्रेम घनागमश्रियः ॥
KA 4.23 वंशस्थम्
पतन्ति नास्मिन्विशदाः पतत्त्रिणो धृतेन्द्रचापा न पयोदपङ्क्तयः । तथापि पुष्णाति नभः श्रियं परां न रम्यमाहार्यमपेक्षते गुणम् ॥
KA 4.24 वंशस्थम्
विपाण्डुभिर्ग्लानतया पयोधरैश्च्युताचिराभागुणहेमदामभिः । इयं कदम्बानिलभर्तुरत्यये न दिग्वधूनां कृशता न राजते ॥
KA 4.25 वंशस्थम्
विहाय वाञ्छामुदिते मदात्ययादरक्तकण्ठस्य रुते शिखण्डिनः । श्रुतिः श्रयत्युन्मदहंसनिःस्वनं गुणाः प्रियत्वेऽधिकृता न संस्तवः ॥
KA 4.26 वंशस्थम्
अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः । विकासि वप्राम्भसि गन्धसूचितं नमन्ति निघ्रातुमिवासितोत्पलम् ॥
KA 4.27 वंशस्थम्
मृणालिनीनामनुरञ्जितं त्विषा विभिन्नमम्भोजपलाशशोभया । पयः स्फुरच्छालिशिखापिशङ्गितं द्रुतं धनुष्खण्डमिवाहिविद्विषः ॥
KA 4.28 वंशस्थम्
विपाण्डु संव्यानमिवानिलोद्धतं निरुन्धतीः सप्तपलाशजं रजः । अनाविलोन्मीलितबाणचक्षुषः सपुष्पहासा वनराजियोषितः ॥
KA 4.29 वंशस्थम्
अदीपितं वैद्युतजातवेदसा सिताम्बुदच्छेदतिरोहितातपम् । ततान्तरं सान्तरवारिशीकरैः शिवं नभोवर्त्म सरोजवायुभिः ॥
KA 4.30 वंशस्थम्
सितच्छदानामपदिश्य धावतां रुतैरमीषां ग्रथिताः पतत्रिणाम् । प्रकुर्वते वारिदरोधनिर्गताः परस्परालापमिवामला दिशः ॥
KA 4.31 वंशस्थम्
विहारभूमेरभिघोषमुत्सुकाः शरीरजेभ्यश्च्युतयूथपङ्क्तयः । असक्तमूधांसि पयः क्षरन्त्यमूरुपायनानीव नयन्ति धेनवः ॥
KA 4.32 वंशस्थम्
जगत्प्रसूतिर्जगदेकपावनी व्रजोपकण्ठं तनयैरुपेयुषी । द्युतिं समग्रां समितिर्गवामसावुपैति मन्त्रैरिव संहिताहुतिः ॥
KA 4.33 वंशस्थम्
कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने । इदं जिघत्सामपहाय भूयसीं न सस्यमभ्येति मृगीकदम्बकम् ॥
KA 4.34 वंशस्थम्
असावनास्थापरयावधीरितः सरोरुहिण्या शिरसा नमन्नपि । उपैति शुष्यन्कलमः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुताम् ॥
KA 4.35 वंशस्थम्
अमी समुद्धूतसरोजरेणुना हृता हृतासारकणेन वायुना । उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुमलं शिलीमुखाः ॥
KA 4.36 वंशस्थम्
मुखैरसौ विद्रुमभङ्गलोहितैः शिखाः पिशङ्गीः कलमस्य बिभ्रती । शुकावलिर्व्यक्तशिरीषकोमला धनुःश्रियं गोत्रभिदोऽनुगच्छति ॥
KA 4.37 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
इति कथयति तत्र नातिदूरादथ ददृशे पिहितोष्णरश्मिबिम्बः । विगलितजलभारशुक्लभासां निचय इवाम्बुमुचां नगाधिराजः ॥
KA 4.38 मालिनी
तमतनुवनराजिश्यामितोपत्यकान्तं नगमुपरि हिमानीगौरमासद्य जिष्णुः । व्यपगतमदरागस्यानुसस्मार लक्ष्मीमसितमधरवासो बिभ्रतः सीरपाणेः ॥
← Previous (Ch. 3) Full Table of Contents Next (Ch. 5) →