निवृत्ते भरते धी-मानत्रे रामस्तपो-वनम् । प्रपेदे पूजितस्तस्मिन्दण्डकारण्यमीयिवान् ॥
अटाट्यमानोऽरण्यानीं स-सीतः सह-लक्ष्मणः । बलाद्बुभुक्षुणोत्क्षिप्य जह्रे भीमेन रक्षसा ॥
अवाक्-शिरसमुत्-पादं कृतान्तेनाऽपि दुर्-दमम् । भङ्क्त्वा भुजौ विराधाऽऽख्यं तं तौ भुवि निचख्नतुः ॥
आंहिषातां रघु-व्याघ्रौ शरभङ्गाऽऽश्रमं ततः ।अध्यासितं श्रिया ब्राह्म्या शरण्यं शरणैषिणाम् ॥
पुरो रामस्य जुहवाञ्चकार ज्वलने वपुः । शरभङ्गः प्रदिश्याऽऽरात्सुतीक्ष्ण-मुनिः-केतनम् ॥
"यूयं समैष्यथेत्यस्मि न्नासिष्महि वयं वने । दृष्टाः स्थ स्वस्ति वो यामः स्व-पुण्य-विजितां गतिम्" ॥
तस्मिन्कृशानु-साद्-भूते सुतीक्ष्ण-मुनि-सन्निधौ ।उवास पर्ण-शालायां भ्रमन्ननिशमाऽऽश्रमान् ॥
वनेषु वासतेयेषु निवसन्पर्ण-संस्तरः । शय्योत्थायं मृगान्विध्यन्नातिथेयो विचक्रमे ॥
ऋग्-यजुषमधीयानान्सामान्यांश्च समर्चयन् । बुभुजे देव-सात्-कृत्वा शूल्यमुख्यं च हेम-वान् ॥
वसानस्तन्त्रक-निभे सर्वाङ्गीणे तरु-त्वचौ । काण्डीरः खाड्गकः शार्ङ्गी रक्षन्विप्रांस्तनुत्र-वान् ॥
हित्वाऽऽशितङ्गवीनानि फलैर्येष्वाशितम्भवम् । तेष्वसौ दन्दशूकाऽरिर्वनेश्वानभ्र निर्-भयः ॥
व्रातीन-व्याल-दीप्राऽस्त्रः सुत्वनः परिपूजयन् । पर्षद्वलान्महा-ब्रह्मैराट नैकटिकाऽऽश्रमान् ॥
परेद्यव्यद्य पूर्वेद्युरन्येद्युश्चाऽपि चिन्तयन् । वृद्धि-क्षयौ मुनीन्द्राणां प्रियं-भावुक-तामगात् ॥
आ-तिष्ठद्-गु जपन्सन्ध्या प्रक्रान्तामायतीगवम् । प्रातस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन्रविम् ॥
ददृशे पर्ण-शालायां राक्षस्याऽभीकयाऽथ सः । भार्योढं तमवज्ञाय तस्थे सौमित्रयेऽसकौ ॥
दधाना वलि-भं मध्यं कर्ण-जाह-विलोचना । वाक-त्वचेनाऽति-सर्वेण चन्द्र-लेखेव पक्षतौ ॥
सु-पाद्द्वि-रद्-नासोरूर्मृदु-पाणि-तलाऽङ्गुलिः । प्रथिमानं दधानेन जघनेन घनेन सा ॥
उन्-नसं दधती वक्त्रं शुद्ध-दल्-लोल-कुण्डलम् । कुर्वाणा पश्यतः शंयून्स्रग्विणी सु-हसाऽऽनना ॥
प्राप्य चञ्चूर्यमाणा पतीयन्ती रघूत्तमम् ।अनुका प्रार्थयाञ्चक्रे प्रिया-कर्तुं प्रियं-वदा ॥
"सौमित्रे ! मामुपायंस्थाः कम्रामिच्छुर्वशं-वदाम् । त्वद्-भोगीनां सह-चरीम-शङ्कः पुरुषाऽऽयुषम्।" ॥
तामुवाच स-"गौष्ठीने वने स्त्री-पुंस-भीषणे ।अ-सूर्यं-पश्य-रूपा त्वं किम-भीरुररार्यसे ॥
मानुषानभिलष्यन्ती रोचिष्णुर्दिव्य-धर्मिणी । त्वमप्सरायमाणेह स्व-तन्त्रा कथमञ्चसि ॥
उग्रं-पश्याऽऽकुलोऽरण्ये शालीन-त्व-विवर्जिता । कामुक-प्रार्थना-पट्वी पतिवत्नी कथं न वा ॥
राघवं पर्ण-शालायामिच्छाऽनुरहसं पतिम् । यः स्वामी मम कान्ता-वानौपकर्णिक-लोचनः ॥
वपुश्चान्दनिकं यस्य कार्णवेष्टकिकं मुखम् । संग्रामे सर्व-कर्मीणौ पाणी यस्यौपजानुकौ ॥
बद्धो दुर्-बल-रक्षाऽर्थमसिर्येनोपनीविकः । यश्चापमाश्मन-प्रख्यं सेषुं धत्तेऽन्य-दुर्-वहम् ॥
जेता यज्ञ-द्रुहां संख्ये धर्म-सन्तान-सूर्वने । प्राप्य दार-गवानां यः मुनीनाम-भयं सदा" ॥
ततो वावृत्यमानाऽसौ राम-शालां न्यविक्षत । "मामुपायंस्त रामे"ति वदन्ती साऽऽदरं वचः ॥
"अ-स्त्रीकोऽसावहं स्त्री-मान्स पुष्यति-तरां तव । पतिर्"इत्यब्रवीद्रामस्"तमेव व्रज मा मुचः।" ॥
लक्ष्मणंऽसा वृषस्यन्ती महोक्षं गौरिवाऽगमत् । मन्मथाऽऽयुध-सम्पात-व्यथ्यमान-मतिः पुनः ॥