नृपाऽऽत्मजौ चिक्लिशतुः स-सीतौ ममार राजा वि-धवा भवत्यः । शोच्या वयं भूर-नृपा लघुत्वं केकय्युपज्ञं बत बह्वनर्थम् ॥
नैतन्मतं मत्कमिति ब्रुवाणः सहस्र-शोऽसौ शपथानशप्यत् ।उद्वाश्यमानः पितरं स-रामं लुठ्यन्स-शोको भुवि रोरुदा-वान् ॥
तं सुस्थयन्तः सचिवा नरेन्द्रं दिधक्षयन्तः समुदूहुरारात् ।अन्त्याऽऽहुतिं हावयितुं स-विप्राश्चिचीषयन्तोऽध्वर-पात्र-जातम् ॥
उदक्षिपन्पट्ट-दुकूल-केतू- नवादयन्वेणु-मृदङ्ग-कांस्यम् । कम्बूंश्च तारानधमन्समन्तात्तथाऽऽनयन्कुङ्कुम-चन्दनानि ॥
श्रोत्राऽक्षि-नासा-वदनं स-रुक्मं कृत्वाऽजिने प्राक्-शिरसं निधाय । सञ्चित्य पात्राणि यथा-विधान- मृत्विग्जुहाव ज्वलितं चिताऽग्निम् ॥
कृतेषु पिण्डोदक-सञ्चयेषु हित्वाऽभिषेकं प्रकृतं प्रजाभिः । प्रत्यानिनीषुर्विनयेन रामं प्रायादरण्यं भरतः स-पौरः ॥
शीघ्रायमाणैः ककुभोऽश्नुवानैर्जनैर-पन्थानमुपेत्य सृप्तैः । शोकाद-भूषैरपि भूश्चकासा- ञ्चकार नागेन्द्र-रथाऽश्व-मिश्रैः ॥
उच्चिक्यिरे पुष्प-फलं वनानि सस्नुः पित्न्पिप्रियुरापगासु ।आरेटुरित्वा पुलिनान्यशङ्कं छायां समाश्रित्य विशश्रमुश्च ॥
संप्राप्य तीरं तमसाऽऽपगाया गङ्गाऽम्बु-सम्पर्क-विशुद्धि-भाजः । विगाहितुं यामुनमब्मु पुण्यं ययुर्निरुद्ध-श्रमवृत्तयस्ते ॥
ईयुर्भरद्वाज-मुनेर्निकेतं यस्मिन्विशश्राम समेत्य रामः । च्युताऽशनायः फलवद्-विभूत्या व्य्स्यन्नुदन्यां शिशिरैः पयोभिः ॥
वाचं-यमान्स्थण्डिल-शायिनश्च युयुक्षमाणाननिशं मुमुक्षून् ।अध्यापयन्तं विनयात्प्रणेमुः पद्गा भरद्वाज-मुनिः स-शिष्यं ॥
आतिथ्यमेभ्यः परिनिर्विवप्सोः कल्प-द्रुमा योग-बलेन फेलुः । धाम-प्रथिम्नो म्रदिमाऽन्वितानि वासांसि च द्राघिम-वन्त्युदूहुः ॥
आज्ञां प्रतीषुर्विनयादुपास्थुर्जगुः सरागं ननृतुः स-हावम् । स-विभ्रमं नेमुरुदारमुचुस्तिलोत्तमाऽऽद्या वनिताश्च तस्मिन् ॥
वस्त्राऽन्न-पानं शयनं च नाना कृत्वाऽवकाशे रुचि-संप्रक्wxल्क़्क़्प्तम् । तान्प्रीति-मानाह मुनिस्ततः स्म "निवध्वमाध्वं पिबताऽत्त शेध्वम् ॥
ते भुक्तवन्तः सु-सुखं वसित्वा वासांस्युषित्वा रजनीं प्रभाते । द्रुतं समध्वा रथ-वाजि-नागैर्मन्दाकिनीं रम्य-वनां समीयुः ॥
वैखानसेभ्यः श्रुत-राम-वार्तास्ततो विशिञ्जान-पतक्त्रि-सङ्घम् ।अभ्रं-लिहाऽग्रं रवि-मार्ग-भङ्गमानंहिरेऽद्रिं प्रति चित्र-कूटम् ॥
दृष्ट्वोर्णुवानान्ककुभो बलौघान्वितत्य शार्ङ्गं कवचं पिनह्य । तस्थौ सिसंग्रामयिषुः शितेषुः सौमित्रिरक्षि-भ्रुवमुज्जिहानः ॥
शुक्लोत्तरासङ्ग-भृतो वि-शस्त्रान्पादैः शनैरापततः प्र-मन्यून् ।औहिष्ट तान्वीत-विरुद्ध-बुद्धीन्विवन्दिषून्दाशरथिः स्व-वर्ग्यान् ॥
स-मूल-काषं चकषू रुदन्तो रामाऽन्तिकं बृंहित-मन्यु-वेगाः ।आवेदयन्तः क्षिति-पालमुच्चैः- कारं मृतं राम-वियोग-शोकात् ॥
चिरं रुदित्वा करुणं स-शब्दं गोत्राऽभिधायं सरितं समेत्य । मध्ये-जलाद्राघव-लक्ष्मणाभ्यां प्रत्तं जलं द्व्यञ्जलमन्तिकेऽपाम् ॥
"अरण्य-याने सु-करे पिता मा प्रायुङ्क्त राज्ये बत दुष्-करे त्वाम् । मा गाः शुचं वीर ! भरं वहाऽमुम्"आभाषि रामेण वचः कनीयान् ॥
"कृती श्रुती वृद्ध-मतेषु धीमांस्त्वं पैतृकं चेद्वचनं न कुर्याः । विच्छिद्यमानेऽपि कुले परस्य पुंसः कथं स्यादिह पुत्र-काम्या ॥
अस्माकमुक्तं बहु मन्यसे चेद्यदीशिषे त्वं न मयि स्थिते च । जिह्रेष्य-तिष्ठन्यदि तात-वाक्ये जहीहि शङ्कां व्रज शाधि पृथ्वीम्।" ॥
"वृद्धौरसां राज्य-धुरां प्रवोढुं कथं कनीयानहमुत्सहेय । मा मां प्रयुक्थाः कुल-कीर्ति-लोपे" प्राह स्म रामं भरतोऽपि धर्य्मम् ॥
"ऊर्जस्-वलं हस्ति-तुरङ्गमेतदमूनि रत्नानि च राज-भाञ्जि । राजन्यकं चैतदहं क्षितीन्द्रस्त्वयि स्थिते स्यामिति शान्तमैतत्।" ॥
इति निगदितवन्तं राघवस्तं जगाद "व्रज भरत ! गृहीत्वा पादुके त्वं मदीये । च्युत-निखिल-विशङ्कः पूज्यमानो जनौघैः सकल-भुवन-राज्यं कारयाऽस्मन्-मतेन" ॥