चारु-समीरण-रमणे हरिण-कलङ्क-किरणाऽऽवली-स-विलासा ।आबद्ध-राम-मोहा वेला-मूले विभावरी परिहीणा ॥
बद्धो वासर-सङ्गे भीमो रामेण लवण-सलिलाऽऽवासे । सहसा संरम्भ-रसो दूराऽऽरूढ-रवि-मण्डल-समो लोले ॥
गाढ-गुरु-पुङ्ख-पीडा- स-धूम-सलिलाऽरि-संभव-महा-बाणे ।आरुढा संदेहं रामे स-मही-धार मही स-फणि-सभा ॥
घोर-जल-दन्ति-संकुल- मट्ट-महापङ्क-काहल-जलाऽऽवासम् ।आरीणं लवण-जलं समिद्ध-फल-बाण-विद्धि-घोर-फणि-वरम् ॥
स-भयं परिहरमाणो महाऽहि-संचार-भासुरं सलिल-गणम् ।आरूढो लवण-जलो जल-तीरं हरि-बलाऽऽगम-विलोल-गुहम् ॥
चञ्चल-तरु-हरिण-गणं बहु-कुसुमाऽऽबन्ध-बद्ध-रामाऽऽवासम् । हरि-पल्लव-तरु-जालं तुङ्गोरु-समिद्ध-तरु-वर-हिम-च्छायम् ॥
वर-वारनं सलिल-भरेण गिरि-मही-मण्डल-संवर-वारणम् । वसुधार्यं तुङ्ग-तरङ्ग-सङ्ग-परिहीण-लोल-वसुधा-रयम् ॥
प्रणिपत्य ततो वचनं जगाद हितमायतो पतिर्वारीणाम् । गङ्गाऽवलम्बि-बाहू रामं बहलोरु-हरि-तमाल-च्छायम् ॥
"तुङ्गा गिरि-वर-देहा अ-गमं सलिलं समीरणो रस-हारी ।अ-हिमो रवि-किरण-गणो माया संसार-कारणं ते परमा ॥
आयास-संभवारुण ! संहर संहार-हिम-हर-सम-च्छायम् । बाणं वारि-समूहं संगच्छ पुराण-चारु-देहाऽऽवासम् ॥
अ-सुलभ-हरि-संचारं जल-मूलं बहल-पङ्क-रुद्धाऽऽयामम् । भण किं जल-परिहीणं सु-गमं तिमि-कम्बु-वारि-वारण-भीमम् ॥
गन्तुं लङ्का-तीरं बद्ध-महासलिल-संचरेण स-हेलम् । तरु-हरिणा गिरि-जालं वहन्तु गिरि-भार-संसहा गुरु-देहम् ॥
हर-हास-रुद्ध-विगमं पर-कण्ठ-गणं महाऽऽहव-समारम्भे । छिन्दन्तु राम-बाणा गम्भीरे मे जले महा-गिरि-बद्धे ॥
गच्छन्तु चारु-हासा वीर-रसाऽऽबन्ध-रुद्ध-भय-संबन्धम् । हन्तुं बहु-बाहु-बलं हरि-करिणो गिरि-वरोरु-देहं सहसा ॥
जिगमिषया संयुक्ता बहूव कपि-वाहिनी मते दाशरथेः । बुद्ध-जलाऽऽलय-चित्ता गिरि-हरणाऽऽरम्भ-संभव-समालोला ॥
गुरु-गिरि-वर-हरण-सहं संहार-हिमारि-पिङ्गलं राम-बलम् ।आरूढं सहसा खं वरुणाऽऽलय-विमल-सलिल-गण-गम्भीरम् ॥
अवगाढं गिरि-जालं तुङ्ग-महा-भित्ति-रुद्ध-सुर-संचारम् ।अ-भयहरि-रास-भीमं करि-परिमल-चारु-बहल-कन्दर-सलिलम् ॥
अलि-गण-विलोल-कुसुमं स-कमल-जल-मत्त-कुरर-कारण्डव-गणम् । फणि-संकुल-भीम-गुहं करि-दन्त-समूढ-स-रस-वसुधा-खण्डम् ॥
अरविन्द-रेणु-पिञ्जर- सारस-रव-हारि-विमल-बहु-चारु-जलम् । रवि-मणि-संभव-हिम-हर- समागमाऽऽबद्ध-बहुल-सुर-तरु-धूपम् ॥
हरि-रव-विलोल-वारण- गम्भीराऽऽबद्ध-स-रस-पुरु-संरावम् । घोणा-संगम-पङ्काऽऽ- विल-सुबल-भर-महोरु-वराहम् ॥
उच्चख्नुः परिरब्धान्कपि-सङ्घा बाहुभिस्ततो भूमि-भृतः । निष्पष्ट-शेष-मूर्ध्नः शृङ्ग-विकीर्णोष्ण-रश्मि-नक्षत्र-गणान् ॥
तुङ्ग-महा-गिरि-सुभरा बाहु-समारुद्ध-भिदुर-टङ्का बहुधा । लवण-जल-बन्ध-कामा आरूढा अम्बरं महा-परिणाहम् ॥
बहु-धवल-वारि-वाहं विमलाऽऽयस-महाऽसि-देह-च्छायम् । बद्ध-विहङ्गम-मालं हिम-गिरिमिव मत्त-कुरर-रव-संबद्धम् ॥
चारु-कलहंस्-संकुल- स-चण्ड-संचार-सारसाऽऽबद्ध-रवम् । स-कुसुम-कण-गन्ध-वहं समयाऽऽगम-वारि-सङ्ग-विमलाऽऽयामम् ॥
सहसा ते तरु-हरिणा गिरि-सुभरा लवण-सलिल-बन्धाऽऽरम्भे । तीर-गिरिमारूढा रामाऽऽगम-रुद्ध-स-भय-रिपु-संचारम् ॥
ततः प्राणीताः कपि-यूथ-मुख्यैर्न्यस्ताः कृशानोस्तनयेन सम्यक् ।अ-कम्प्र-ब्राध्नाऽग्र-नितम्ब-भागा महाऽर्णवं भूमि-भृतोऽवगाढाः ॥
तेनेऽद्रि-बन्ध्यो ववृधे पयोधिस्तुतोष रामो मुमुदे कपीन्द्रः । तत्रास शत्रुर्ददृशे सुवेलः प्रापे जलान्तो जुहृषुः प्लवङ्गाः ॥
भ्रेमुर्ववल्गुर्ननृतुर्जजक्षुर्जुगुः समुत्पुप्लुविरे निषेदुः ।आस्फोटयांचक्रुरभिप्रणेदू रेजुर्ननन्दुर्विययुः समीयुः ॥
गिरि-पङ्क-चारु-देहं कक्कोल-लवङ्ग-बध-सुरभि-परिमलम् । बहु-बहलोरु-तरङ्गं परिसरसारूढमुद्धरं लवण-जलम् ॥
लोलं कूलाऽभिगमे खे तुङ्गा-मल-निबद्ध-पुरु-परिणाहम् । सुर-गङ्गा-भरण-सहं गिरि-बन्ध-वरेण लवण-सलिलं रुद्धम् ॥