१-७३ अथर्वा। यमः, ४४, ४६ मन्त्रोक्ताः, ५-६ अग्निः, ५० भूमिः, ५४ इन्दुः, ५६ आपः। त्रिष्टुप्,
४, ८, ११, २३ सतः पङ्क्ति, ५ त्रिपदा निचृद्गायत्री, ६, ५६, ६८, ७०, ७२ अनुष्टुप् (५६ आर्षी),
१८ २५-२९, ४४, ४६ जगती, (१८ भुरिक्, २९ विराट्) ३० पञ्चपदा अतिजगती, ३१ विराट् शक्वरी,
३२-३५, ४७, ४९, ५२ भुरिक्, ३६ एकावसाना आसुरी अनुष्टुप्, ३७ अकावसाना आसुरी गायत्री,
३९ परा त्रिष्टुप् पङ्क्तिः, ५० प्रस्तारपङ्क्तिः, ५४ पुरोऽनुष्टुप्, ५८ विराट्, ६० त्र्यवसाना षट्-पदा जगती,
६४ भुरिक् पथ्यापङ्क्तिः, ६७ पथ्याबृहती, ६९, ७१ उपरिष्टाद् बृहती।
इ॒यं नारी॑ पतिलो॒कं वृ॑णा॒ना नि प॑द्यत॒ उप॑ त्वा मर्त्य॒ प्रेत॑म्।
धर्मं॑ पुरा॒णम॑नुपा॒लय॑न्ती॒ तस्यै॑ प्र॒जां द्रवि॑णं चे॒ह धे॑हि