Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 18 (Kāṇḍa 18) • Sūkta 2

Kāṇḍa 18 Sūkta 2

काण्डम् 18 • सूक्तम् 2

Kāṇḍa 18 Sūkta 2 of the Shaunaka Saṁhitā of Atharvaveda with 60 mantras.

Total: 60 Verses • Citations: AV 18.2.1–60 • 2 Lexicon Terms • Page 2 of 2 (Verses 30 shown)
अश्वा॑वतीं॒ प्र त॑र॒ या सु॒शेवा॒र्क्षाकं॑ वा प्रत॒रं नवी॑यः ।
यस्त्वा॑ ज॒घान॒ वध्यः॒ सो अ॑स्तु॒ मा सो अ॒न्यद् वि॑दत भाग॒धेय॑म्
य॒मः परोऽव॑रो॒ विव॑स्वा॒न् ततः॒ परं॒ नाति॑ पश्यामि॒ किं च॒न।
य॒मे अ॑ध्व॒रो अधि॑ मे॒ निवि॑ष्टो॒ भुवो॒ विव॑स्वान॒न्वात॑तान
अपा॑गूहन्न॒मृतां॒ मर्त्ये॑भ्यः कृ॒त्वा सव॑र्णामदधु॒र्विव॑स्वते ।
उ॒ताश्विना॑वभर॒द् यत् तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः
ये निखा॑ता॒ ये परो॑प्ता॒ ये द॒ग्धा ये चोद्धि॑ताः ।
सर्वां॒स्तान॑ग्न॒ आ व॑ह पि॒तॄन् ह॒विषे॒ अत्त॑वे
ये अ॑ग्निद॒ग्धा ये अन॑ग्निदग्धा॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते ।
त्वं तान् वे॑त्थ॒ यदि॒ ते जा॑तवेदः स्व॒धया॑ य॒ज्ञं स्वधि॑तिं जुषन्ताम्
शं त॑प॒ माति॑ तपो॒ अग्ने॒ मा त॒न्वं॑१ तपः॑ ।
वणे॑षु॒ शुष्मो॑ अस्तु ते पृथि॒व्याम॑स्तु॒ यद्धरः॑
ददा॑म्यस्मा अव॒सान॑मे॒तद् य ए॒ष आग॒न् मम॒ चेदभू॑दि॒ह।
य॒मश्चि॑कि॒त्वान् प्रत्ये॒तदा॑ह॒ ममै॒ष रा॒य उप॑ तिष्ठतामि॒ह
इ॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै ।
श॒ते श॒रत्सु॒ नो पु॒रा
प्रेमां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै ।
श॒ते श॒रत्सु॒ नो पु॒रा
अपे॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै ।
श॒ते श॒रत्सु॒ नो पु॒रा
वी॒३मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै ।
श॒ते श॒रत्सु॒ नो पु॒रा
निरि॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै ।
श॒ते श॒रत्सु॒ नो पु॒रा
उदि॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै ।
श॒ते श॒रत्सु॒ नो पु॒रा
समि॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै ।
श॒ते श॒रत्सु॒ नो पु॒रा
अमा॑सि॒ मात्रां॒ स्वऽरगा॒मायु॑ष्मान् भूयासम्।
यथाप॑रं॒ न मासा॑तै श॒ते श॒रत्सु॒ नो पु॒रा
प्रा॒णो अ॑पा॒नो व्या॒न आयु॒श्चक्षु॑र्दृ॒शये॒ सूर्या॑य ।
अप॑रिपरेण प॒था य॒मरा॑ज्ञः पि॒तॄन् ग॑च्छ
ये अग्र॑वः शशमा॒नाः प॑रे॒युर्हि॒त्वा द्वेषां॒स्यन॑पत्यवन्तः ।
ते द्यामु॒दित्या॑विदन्त लो॒कं नाक॑स्य पृ॒ष्ठे अधि॒ दीध्या॑नाः
उ॒द॒न्वती॒ द्यौर॑व॒मा पी॒लुम॒तीति॑ मध्य॒मा।
तृ॒तीया॑ ह प्र॒द्यौरिति॒ य॑स्यां पि॒तर॒ आस॑ते
ये न॑ पि॒तुः पि॒तरो॑ ये पि॑ताम॒हा य आ॑विवि॒शुरु॒र्व॑१न्तरि॑क्षम्।
य आ॑क्षि॒यन्ति॑ पृथि॒वीमु॒त द्यां तेभ्यः॑ पि॒तृभ्यो॒ नम॑सा विधेम
इ॒दमिद् वा उ॒ नाप॑रं दि॒वि प॑श्यसि॒ सूर्य॑म्।
मा॒ता पु॒त्रं यथा॑ सि॒चाभ्येऽनं भूम ऊर्णुहि
इ॒दमिद् वा उ॒ नाप॑रं ज॒रस्य॒न्यदि॒तोऽप॑रम्।
जा॒या पति॑मिव॒ वास॑सा॒भ्येऽनं भूम ऊर्णुहि
अ॒भि त्वो॑र्णोमि पृथि॒व्या मा॒तुर्वस्त्रे॑ण भ॒द्रया॑ ।
जी॒वेषु॑ भ॒द्रं तन्मयि॑ स्व॒धा पि॒तृषु॒ सा त्वयि॑
अग्नी॑षोमा॒ पथि॑कृता स्यो॒नं दे॒वेभ्यो॒ रत्नं॑ दधथु॒र्वि लो॒कम्।
उप॒ प्रेष्य॑न्तं पू॒षणं॒ यो वहा॑त्यञ्जो॒यानैः॑ प॒थिभि॒स्तत्र॑ गच्छतम्
पू॒षा त्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः ।
स त्वै॒तेभ्यः॒ परि॑ ददत् पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुविद॒त्रिये॑भ्यः
आयु॑र्वि॒श्वायुः॒ परि॑ पातु त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त्।
यत्रास॑ते सु॒कृतो॒ यत्र॒ त ई॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु
इ॒मौ यु॑नज्मि ते॒ वह्नी॒ असु॑नीताय॒ वोढ॑वे ।
ताभ्यां॑ य॒मस्य॒ साद॑नं॒ समि॑ती॒श्चाव॑ गच्छतात्
ए॒तत् त्वा॒ वासः॑ प्रथ॒मं न्वाग॒न्नपै॒तदू॑ह यदि॒हाबि॑भः पु॒रा।
इ॒ष्टा॒पू॒र्तम॑नु॒संक्रा॑म वि॒द्वान् यत्र॑ ते द॒त्तं ब॑हु॒धा विब॑न्धुषु
अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ मेद॑सा॒ पीव॑सा च ।
नेत् त्वा॑ धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो द॒धृग् वि॑ध॒क्षन् प॑री॒ङ्खया॑तै
द॒ण्डं हस्ता॑दा॒ददा॑नो ग॒तासोः॑ स॒ह श्रोत्रे॑ण॒ वर्च॑सा॒ बले॑न ।
अत्रै॒व त्वमि॒ह व॒यं सु॒वीरा॒ विश्वा॒ मृधो॑ अ॒भिमा॑तीर्जयेम
धनु॒र्हस्ता॑दा॒ददा॑नो मृ॒तस्य॑ स॒ह क्ष॒त्रेण॒ वर्च॑सा॒ बले॑न ।
स॒मागृ॑भाय॒ वसु॒ भूरि॑ पु॒ष्टम॒र्वाङ्त्वमेह्युप॑ जीवलो॒कम्
← Previous (Ch. 518) Full Table of Contents Next (Ch. 520) →