Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 5 (Sundarakāṇḍa) • Sūkta 15

Kāṇḍa 5 Sūkta 15

काण्डम् 5 • सूक्तम् 15

Kāṇḍa 5 Sūkta 15 of the Shaunaka Saṁhitā of Atharvaveda with 11 mantras.

Total: 11 Verses • Citations: AV 5.15.1–11 • 2 Lexicon Terms
रोगोपशमनम्।
१-११ विश्वामित्रः। मधुला वनस्पतिः। अनुष्टुप्, ४ पुरस्ताद्बृबती, ५,७,९ भुरिक्।
एका॑ च मे॒ दश॑ च मे ऽपव॒क्तार॑ ओषधे ।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः
द्वे च॑ मे विंश॒तिश्च॑ मे ऽपव॒क्तार॑ ओषधे ।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः
ति॒स्रश्च॑ मे त्रिं॒शच्च॑ मे ऽपव॒क्तार॑ ओषधे ।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः
चत॑स्रश्च मे चत्वारिं॒शच्च॑ मे ऽपव॒क्तार॑ ओषधे ।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः
प॒ञ्च च॑ मे पञ्चा॒शच्च॑ मे ऽपव॒क्तार॑ ओषधे ।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः
षट् च॑ मे ष॒ष्टिश्च॑ मे ऽपव॒क्तार॑ ओषधे ।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः
स॒प्त च॑ मे सप्त॒तिश्च॑ मे ऽपव॒क्तार॑ ओषधे ।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः
अ॒ष्ट च॑ मेऽशी॒तिश्च॑ मे ऽपव॒क्तार॑ ओषधे ।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः
नव॑ च मे नव॒तिश्च॑ मे ऽपव॒क्तार॑ ओषधे ।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः
दश॑ च मे श॒तं च मे॑ ऽपव॒क्तार॑ ओषधे ।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः
श॒तं च॑ मे स॒हस्रं॑ चापव॒क्तार॑ ओषधे ।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः
← Previous (Ch. 156) Full Table of Contents Next (Ch. 158) →