Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 5 (Sundarakāṇḍa) • Sūkta 13

Kāṇḍa 5 Sūkta 13

काण्डम् 5 • सूक्तम् 13

Kāṇḍa 5 Sūkta 13 of the Shaunaka Saṁhitā of Atharvaveda with 11 mantras.

Total: 11 Verses • Citations: AV 5.13.1–11 • 2 Lexicon Terms
सर्पविषनाशनम्।
१-११ गरुत्मान्। तक्षकः। जगती, २ आस्तारपङ्क्तिः, ४,७,८ अनुष्टप्, ५ त्रिष्टुप्, ६ पथ्यापङ्क्तिः. ९ भुरिक्, १०,११ निचृद्गायत्री।
द॒दिर्हि मह्यं॒ वरु॑णो दि॒वः क॒विर्वचो॑भिरु॒ग्रैर्नि रि॑णामि ते वि॒षम्।
खा॒तमखा॑तमु॒त स॒क्तम॑ग्रभ॒मिरे॑व॒ धन्व॒न् नि ज॑जास ते वि॒षम्
यत् ते॒ अपो॑दकं वि॒षं तत् त॑ ए॒तास्व॑ग्रभम्।
गृ॒ह्णामि॑ ते मध्य॒ममु॑त्त॒मं रस॑मु॒ताव॒मं भि॒यसा॑ नेश॒दादु॑ ते
वृषा॑ मे॒ रवो॒ नभ॑सा॒ न त॑न्य॒तुरु॒ग्रेण॑ ते॒ वच॑सा बाध॒ आदु॑ ते ।
अ॒हं तम॑स्य॒ नृभि॑रग्रभं॒ रसं॒ तम॑स इव॒ ज्योति॒रुदे॑तु॒ सूर्यः॑
चक्षु॑षा ते॒ चक्षु॑र्हन्मि वि॒षेण॑ हन्मि ते वि॒षम्।
अहे॑ म्रि॒यस्व॒ मा जी॑वीः प्र॒त्यग॒भ्येऽतु त्वा वि॒षम्
कैरा॑त पृश्न॒ उप॑तृण्य॒ बभ्र॒ आ मे॑ शृणु॒तासि॑ता॒ अली॑काः ।
मा मे॒ सख्युः॑ स्ता॒मान॒मपि॑ ष्ठाताश्रा॒वय॑न्तो॒ नि वि॒षे र॑मध्वम्
अ॒सि॒तस्य॑ तैमा॒तस्य॑ ब॒भ्रोरपो॑दकस्य च ।
सा॒त्रा॒सा॒हस्या॒हं म॒न्योरव॒ ज्यामि॑व॒ धन्व॑नो॒ वि मु॑ञ्चामि॒ रथाँ॑ इव
आलि॑गी च॒ विलि॑गी च पि॒ता च॑ माता॒ च॑ ।
वि॒द्म वः॑ स॒र्वतो॒ ब॑न्ध्वर॑साः॒ किं क॑रिष्यथ
उ॒रु॒गूला॑या दुहि॒ता जा॒ता दा॒स्यसि॑क्न्या ।
प्र॒तङ्कं॑ द॒द्रुषी॑णां॒ सर्वा॑सामर॒सं वि॒षम्
क॒र्णा श्वा॒वित् तद॑ब्रवीद् गि॒रेर॑वचरन्ति॒का।
याः काश्चे॒माः ख॑नि॒त्रिमा॒स्तासा॑मर॒सत॑मं वि॒ष॑म्
ता॒बुवं॒ न ता॒बुवं॒ न घेत् त्वम॑सि ता॒बुव॑म्।
ता॒बुवे॑नार॒सं वि॒षम्
त॒स्तुवं॒ न त॒स्तुवं॒ न घेत् त्वम॑सि त॒स्तुव॑म्।
त॒स्तुवे॑नार॒सं वि॒षम्
← Previous (Ch. 154) Full Table of Contents Next (Ch. 156) →