Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 15 (Kāṇḍa 15) • Sūkta 4

Kāṇḍa 15 Sūkta 4

काण्डम् 15 • सूक्तम् 4

Kāṇḍa 15 Sūkta 4 of the Shaunaka Saṁhitā of Atharvaveda with 18 mantras.

Total: 18 Verses • Citations: AV 15.4.1–18 • 2 Lexicon Terms
१-१८ अथर्वा। अध्यात्मं, व्रात्यः। १, १३, १६ दैवी जगती; ४, ७, १० प्राजापत्या गायत्री; २,
८ आर्ची अनुष्टुप्; ३, १२ द्विपदा प्राजापत्या जगती; ५ प्राजापत्या पङ्क्तिः, ६ आर्ची गायत्री,
९ भौमार्ची त्रिष्टुप्, ११ साम्नी त्रिष्टुप्, १४ प्राजापत्या बृहती; १५, १८ द्विपदाऽर्ची पङ्क्तिः १७ आर्ची उष्णिक्।
तस्मै॒ प्राच्या॑ दि॒शः
वा॒स॒न्तौ मासौ॑ गो॒प्तारा॒वकु॑र्वन् बृ॒हच्च॑ रथंत॒रं चा॑नुष्ठा॒तारौ॑
वा॒स॒न्तावे॑नं॒ मासौ॒ प्राच्या॑ दि॒शो गो॑पायतो बृ॒हच्च॑ रथंत॒रं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑
ग्रैष्मौ॒ मासौ॑ गो॒प्तारा॒वकु॑र्वन् यज्ञाय॒ज्ञियं॑ च वामदेव्यं चा॑नुष्ठा॒तारौ॑
ग्रैष्मा॑वेनं॒ मासौ॒ दक्षि॑णाया दि॒शो गो॑पायतो यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑
वार्षि॑कौ॒ मासौ॑ गो॒प्तारा॒वकु॑र्वन् वैरू॒पं च॑ वैरा॒जं चा॑नुष्ठा॒तारौ॑
वार्षि॑कावेनं॒ मासौ॑ प्र॒तीच्या॑ दि॒शो गो॑पायतो वैरू॒पं च॑ वैरा॒जं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑
शा॒र॒दौ मासौ॑ गो॒प्तारा॒वकु॑र्वंछ्यै॒तं च॑ नौध॒सं चा॑नुष्ठा॒तारौ॑
शा॒र॒दावे॑नं॒ मासा॒वुदी॑च्या दि॒शो गो॑पायतः श्यै॒तं च॑ नौध॒सं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑
है॒म॒नौ मासौ॑ गो॒प्तारा॒वकु॑र्व॒न् भूमिं॑ चा॒ग्निं चा॑नुष्ठा॒तारौ॑
है॒म॒नावे॑नं॒ मासौ॑ ध्रु॒वाया॑ दि॒शो गो॑पायतो॒ भूमि॑श्चा॒ग्निश्चानु॑ तिष्ठतो॒ य ए॒वं वेद॑
शै॒शि॒रौ मासौ॑ गो॒प्तारा॒वकु॑र्व॒न् दिवं॑ चादि॒त्यं चा॑नुष्ठा॒तारौ॑
शै॒शि॒रावे॑नं॒ मासा॑वू॒र्ध्वाया॑ दि॒शो गो॑पायतो॒ द्यौश्चा॑दि॒त्यश्चानु॑ तिष्ठतो॒ य ए॒वं वेद॑
← Previous (Ch. 492) Full Table of Contents Next (Ch. 494) →