अ॒ग्निष्ट्वा॒ तस्मा॒देन॑सः सवि॒ता च प्र मु॑ञ्चताम्
अ॒ग्निष्ट्वा॒ तस्मा॒देन॑सः सवि॒ता च प्र मु॑ञ्चताम्
अ॒ग्निष्ट्वा॒ तस्मा॒देनसः सवि॒ता च॒ प्र मु॑ञ्चताम्
दी॒र्घायु॑रस्तु मे॒ पति॒र्जीवा॑ति श॒रदः॑ श॒तम्
प्र॒जयै॑नौ स्वस्त॒कौ विश्व॒मायु॒र्व्यऽश्नुताम्
वि॒वा॒हे कृ॒त्यां यां च॒क्रुरा॒स्नाने॒ तां नि द॑ध्मसि
तत् सं॑भ॒लस्य॑ कम्ब॒ले मृ॒ज्महे॑ दुरि॒तं व॒यम्
अभू॑म य॒ज्ञियाः॑ शु॒द्धाः प्र ण॒ आयूं॑षि तारिषत्
अपा॒स्याः केश्यं॒ मल॒मप॑ शीर्ष॒ण्यं लिखात्
तन्मा प्राप॑त् पृथि॒वीं मोत दे॒वान् दिवं॒ मा प्राप॑दु॒र्व॑१न्तरि॑क्षम्।
अ॒पो मा प्राप॒न्मल॑मे॒तद॑ग्ने य॒मं मा प्राप॑त् पि॒तॄंश्च॒ सर्वा॑न्
सं त्वा॑ नह्यामि प्र॒जया॒ धने॑न॒ सा संन॑द्धा सनुहि॒ वाज॒मेमम्
तावि॒ह सं भ॑वाव प्र॒जामा ज॑नयावहै
अरि॑ष्टासू सचेवहि बृह॒ते वाज॑सातये
ते अ॒स्यै व॒ध्वै संप॑त्न्यै प्र॒जाव॒च्छर्म॑ यच्छन्तु
तां व॑ह॒न्त्वग॑त॒स्यानु॒ पन्थां॑ वि॒राडि॒यं सु॑प्र॒जा अत्य॑जैषीत्
गृ॒हान् ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ दी॒र्घं त॒ आयुः॑ सवि॒ता कृ॑णोतु