Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 14 (Kāṇḍa 14) • Sūkta 2

Kāṇḍa 14 Sūkta 2

काण्डम् 14 • सूक्तम् 2

Kāṇḍa 14 Sūkta 2 of the Shaunaka Saṁhitā of Atharvaveda with 75 mantras.

Total: 75 Verses • Citations: AV 14.2.1–75 • 2 Lexicon Terms • Page 3 of 3 (Verses 15 shown)
यज्जा॒मयो॒ यद् यु॑व॒तयो॑ गृ॒हे ते॑ स॒मन॑र्तिषू॒ रोदे॑न कृण्व॒तीर॒घम्।
अ॒ग्निष्ट्वा॒ तस्मा॒देन॑सः सवि॒ता च प्र मु॑ञ्चताम्
यत् ते॑ प्र॒जायां॑ प॒शुषु॒ यद् वा॑ गृ॒हेषु॒ निष्ठि॑तमघ॒कृद्भि॑र॒घं कृ॒तम्।
अ॒ग्निष्ट्वा॒ तस्मा॒देनसः सवि॒ता च॒ प्र मु॑ञ्चताम्
इ॒यं नार्युप॑ ब्रूते॒ पूल्या॑न्यावपन्ति॒का।
दी॒र्घायु॑रस्तु मे॒ पति॒र्जीवा॑ति श॒रदः॑ श॒तम्
इ॒हेमावि॑न्द्र॒ सं नु॑द चक्रवा॒केव॒ दंप॑ती ।
प्र॒जयै॑नौ स्वस्त॒कौ विश्व॒मायु॒र्व्यऽश्नुताम्
यदा॑स॒न्द्यामु॑प॒धाने॒ यद् वो॑प॒वास॑ने कृ॒तम्।
वि॒वा॒हे कृ॒त्यां यां च॒क्रुरा॒स्नाने॒ तां नि द॑ध्मसि
यद् दु॑ष्कृ॒तं यच्छम॑लं विवा॒हे व॑ह॒तौ च॒ यत्।
तत् सं॑भ॒लस्य॑ कम्ब॒ले मृ॒ज्महे॑ दुरि॒तं व॒यम्
सं॒भ॒ले मलं॑ सादयित्वा क॑म्बले दु॑रितं व॒यम्।
अभू॑म य॒ज्ञियाः॑ शु॒द्धाः प्र ण॒ आयूं॑षि तारिषत्
कृ॒त्रिमः॒ कण्ट॑कः श॒तद॒न् य ए॒षः ।
अपा॒स्याः केश्यं॒ मल॒मप॑ शीर्ष॒ण्यं लिखात्
अङ्गा॑द॒ङ्गाद् व॒यम॒स्या अप॒ यक्ष्मं॒ नि द॑ध्मसि ।
तन्मा प्राप॑त् पृथि॒वीं मोत दे॒वान् दिवं॒ मा प्राप॑दु॒र्व॑१न्तरि॑क्षम्।
अ॒पो मा प्राप॒न्मल॑मे॒तद॑ग्ने य॒मं मा प्राप॑त् पि॒तॄंश्च॒ सर्वा॑न्
सं त्वा॑ नह्यामि॒ पय॑सा पृथि॒व्याः सं त्वा॑ नह्यामि॒ पय॒सौष॑धीनाम्।
सं त्वा॑ नह्यामि प्र॒जया॒ धने॑न॒ सा संन॑द्धा सनुहि॒ वाज॒मेमम्
अमो॒ऽहम॑स्मि॒ सा त्वं सामा॒हम॒स्म्यृक् त्वं द्यौर॒हं पृ॑थि॒वी त्वम्।
तावि॒ह सं भ॑वाव प्र॒जामा ज॑नयावहै
ज॒नि॒यन्ति॑ ना॒वग्र॑वः पुत्रि॒यन्ति॑ सु॒दान॑वः ।
अरि॑ष्टासू सचेवहि बृह॒ते वाज॑सातये
ये पि॒तरो॑ वधूद॒र्शा इमं व॑ह॒तुमाग॑मन्।
ते अ॒स्यै व॒ध्वै संप॑त्न्यै प्र॒जाव॒च्छर्म॑ यच्छन्तु
येदं पूर्वाग॑न् रशना॒यमा॑ना प्र॒जाम॒स्यै द्रवि॑णं चे॒ह द॒त्त्वा।
तां व॑ह॒न्त्वग॑त॒स्यानु॒ पन्थां॑ वि॒राडि॒यं सु॑प्र॒जा अत्य॑जैषीत्
प्र बु॑ध्यस्व सु॒बुधा॒ बुध्य॑माना दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ।
गृ॒हान् ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ दी॒र्घं त॒ आयुः॑ सवि॒ता कृ॑णोतु
← Previous (Ch. 488) Full Table of Contents Next (Ch. 490) →