Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 14 (Kāṇḍa 14) • Sūkta 2

Kāṇḍa 14 Sūkta 2

काण्डम् 14 • सूक्तम् 2

Kāṇḍa 14 Sūkta 2 of the Shaunaka Saṁhitā of Atharvaveda with 75 mantras.

Total: 75 Verses • Citations: AV 14.2.1–75 • 2 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
आ रो॑ह॒ तल्पं सुमन॒स्यमा॑ने॒ह प्र॒जां ज॑नय॒ पत्ये॑ अ॒स्मै।
इ॒न्द्रा॒णीव॑ सु॒बुधा॒ बुध्य॑माना॒ ज्योति॑रग्रा उ॒षसः॒ प्रति॑ जागरासि
दे॒वा अग्रे॒ न्यपद्यन्त॒ पत्नीः॒ सम॑स्पृशन्त त॒न्वऽस्त॒नूभिः॑ ।
सू॒र्येव॑ नारि वि॒श्वरू॑पा महि॒त्वा प्र॒जाव॑ती॒ पत्या॒ सं भ॑वे॒ह
उत् ति॑ष्ठे॒तो वि॑श्वावसो॒ नम॑सेडामहे त्वा ।
जा॒मिमि॑च्छ पितृ॒षदं॒ न्यक्तां॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि
अ॒प्स॒रसः॑ सध॒मादं॑ मदन्ति हवि॒र्धान॑मन्त॒रा सूर्यं॑ च ।
तास्ते॑ ज॒नित्र॑म॒भि ताः परे॑हि॒ नम॑स्ते गन्धर्व॒र्तुना॑ कृणोमि
नमो॑ गन्ध॒र्वस्य॒ नम॑से॒ नमो॒ भामा॑य॒ चक्षु॑षे च कृण्मः ।
विश्वा॑वसो॒ ब्रह्म॑णा ते॒ नमो॒ऽभि जा॒या अ॑प्स॒रसः॒ परे॑हि
रा॒या व॒यं सु॒मन॑सः स्या॒मोदि॒तो ग॑न्ध॒र्वमावी॑वृताम ।
अग॑न्त्स दे॒वः प॑र॒मं स॒धस्थ॒मग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयुः॑
सं पि॑तरा॒वृत्वि॑ये सृजेथां मा॒ता पि॒ता च॒ रेत॑सो भवाथः ।
मर्य॑ इव॒ योषा॒मधि॑रोहयैनां प्र॒जां कृ॑ण्वाथामि॒ह पु॑ष्यतं र॒यिम्
तां पूषं॑छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॒३वप॑न्ति ।
या न॑ ऊ॒रू उ॑श॒ती वि॒श्रया॑ति॒ यस्या॑मु॒शन्तः॑ प्र॒हरे॑म॒ शेपः॑
आ रो॑हो॒रुमुप॑ धत्स्व॒ हस्तं॒ परि॑ ष्वजस्व जा॒यां सु॑मन॒स्यमा॑नः ।
प्र॒जां कृ॑ण्वाथामि॒ह मोद॑मानौ दी॒र्घं वा॒मायुः॑ सवि॒ता कृ॑णोतु
आ वां॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिरहोरा॒त्राभ्यां॒ सम॑नक्त्वर्य॒मा।
अदु॑र्मङ्गली पतिलो॒कमा वि॑शे॒मं शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे
दे॒वैर्द॒त्तं मनु॑ना सा॒कमे॒तद् वाधू॑यं॒ वासो॑ व॒ध्वऽश्च॒ वस्त्र॑म्।
यो ब्र॒ह्मणे॑ चिकि॒तुषे॒ ददा॑ति॒ स इद् रक्षां॑सि॒ तल्पा॑नि हन्ति
यं मे॑ द॒त्तो ब्र॑ह्मभा॒गं व॑धू॒योर्वाधू॑यं॒ वासो॑ व॒ध्वऽश्च॒ वस्त्र॑म्।
यु॒वं ब्र॒ह्मणे॑ऽनुमन्य॑मानौ॒ बृह॑स्पते सा॒कमिन्द्र॑श्च द॒त्तम्
स्यो॒नाद्योने॒रधि॒ बध्य॑मानौ हसामु॒दौ मह॑सा॒ मोद॑मानौ ।
सु॒गू सु॑पु॒त्रौ सु॑गृ॒हौ त॑राथो जी॒वावु॒षसो॑ विभा॒तीः
नवं॒ वसा॑नः सुर॒भिः सु॒वासा॑ उ॒दागां॑ जी॒व उ॒षसो॑ विभा॒तीः ।
आ॒ण्डात् प॑त॒त्रीवा॑मुक्षि॒ विश्व॑स्मा॒देन॑स॒स्परि॑
शुम्भ॑नी॒ द्यावा॑पृथि॒वी अन्ति॑सुम्ने॒ महि॑व्रते ।
आपः॑ स॒प्त सु॑स्रुवुर्दे॒वीस्ता नो॑ मुञ्च॒न्त्वंह॑सः
सू॒र्यायै॑ दे॒वेभ्यो॑ मि॒त्राय॒ वरु॑णाय च ।
ये भू॒तस्य॒ प्रचे॑तस॒स्तेभ्य॑ इ॒दम॑करं॒ नमः॑
य ऋ॒ते चि॑दभि॒श्रिषः॑ पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑ ।
संधा॑ता सं॒धिं म॒घवा॑ पुरू॒वसु॒र्निष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑
अपा॒स्मत् तम॑ उच्छतु॒ नीलं॑ पि॒शङ्ग॑मु॒त लोहि॑तं॒ यत्।
नि॒र्द॒ह॒नी या पृ॑षात॒क्य॑१स्मिन् तां स्था॒णावध्या स॑जामि
याव॑तीः कृ॒त्या उ॑प॒वास॑ने॒ याव॑न्तो॒ राज्ञो॒ वरु॑णस्य॒ पाशाः॑ ।
व्यृद्धयो॒ या अस॑मृद्धयो॒ या अ॒स्मिन् ता स्था॒णावधि॑ सादयामि
या मे॑ प्रि॒यतमा त॒नूः सा मे॑ बिभाय॒ वास॑सः ।
तस्याग्रे॒ त्वं व॑नस्पते नी॒विं कृ॑णुष्व॒ मा व॒यं रि॑षाम
ये अन्ता॒ याव॑तीः॒ सिचो॒ य ओत॑वो॒ ये च॒ तन्त॑वः ।
वासो॒ यत् पत्नी॑भिरु॒तं तन्नः॑ स्यो॒नमुप॑ स्पृशात्
उ॒श॒तीः क॒न्यला॑ इ॒माः पि॑तृलो॒कात् पतिं॑ य॒तीः ।
अव॑ दी॒क्षाम॑सृक्षत॒ स्वाहा॑
बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन्।
वर्चो॒ गोषु॒ प्रवि॑ष्टं॒ यत् तेने॒मां सं सृ॑जामसि
बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन्।
तेजो॒ गोषु॒ प्रवि॑ष्टं॒ यत् तेने॒मां सं सृ॑जामसि
बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन्।
भजो॒ गोषु॒ प्रवि॑ष्टो॒ यस्तेने॒मां सं सृ॑जामसि
बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन्।
यशो॒ गोषु॒ प्रवि॑ष्टं॒ यत् तेने॒मां सं सृ॑जामसि
बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन्।
पयो॒ गोषु॒ प्रवि॑ष्टं॒ यत् तेने॒मां सं सृ॑जामसि
बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन्।
रसो॒ गोषु॒ प्रवि॑ष्टो॒ यस्तेने॒मां सं सृ॑जामसि
यदी॒मे के॒शिनो॒ जना॑ गृ॒हे ते॑ स॒मन॑र्तिषू॒ रोदे॑न कृण्व॒न्तो॒३घम्।
अ॒ग्निष्ट्वा॒ तस्मा॒देन॑सः सवि॒ता च॒ प्र मु॑ञ्चताम्
यदी॒यं दु॑हि॒ता तव॑ विके॒श्यरु॑दद् गृ॒हे रोदे॑न कृण्व॒त्य॑१घम्।
अ॒ग्निष्ट्वा॒ तस्मा॒देन॑सः सवि॒ता च॒ प्र मु॑ञ्चताम्
← Previous (Ch. 488) Full Table of Contents Next (Ch. 490) →