१-४६ ब्रह्म। अध्यात्मं, रोहितादित्यदैवत्यम्। त्रिष्टुप्; १, १२-१५, ३९-४१ अनुष्टुप्; २-३,८,४३ जगती;
१० आस्तारपङ्क्तिः; ११ बृहतीगर्भा; १६-२४ आर्षी गायत्री; २५ ककुम्मत्यास्तारपङ्क्तिः;
२६पुरोद्व्यतिजागता भुरिग्जगती; २७ विराड् जगती; २९ बार्हतगर्भाऽनुष्टुप्; ३० पञ्चपदोष्णिग्बृहतीगर्भाऽतिजगती;
३४ आर्षी पङ्क्तिः; ३७ पञ्चपदा विराड्-गर्भा जगता; ४४-४५ जगती
(४४ चतुष्पदा पुरःशाक्वरा भुरिक्; ४५ अतिजागतगर्भा)।
उद॑स्य के॒तवो॑ दि॒वि शु॒क्रा भ्राज॑न्त ईरते ।
आ॒दि॒त्यस्य॑ नृ॒चक्ष॑सा॒ महि॑व्रतस्य मी॒ढुषः॑